Thursday, 6 February 2020

शिवरात्री द्वितीय यामपूजा

#शिवरात्रौ~>
अथ द्वितीययाम पूजनम्==
आचम्य प्राणानायम्य, सुमुखश्चेत्यादि पठित्वा- देशकालौ संकीर्त्य- श्री साम्बसदाशिव (अमुक महादेव) प्रीत्यर्थं शिवरात्रौ सूचित द्वितीय याम पूजां करिष्ये... तदंगत्वेन पञ्चोपचारैः गणपति पूजनं दशोपचारै र्वा षोडशोपचारैः गौरी पूजां च करिष्ये..
गणपतिं पञ्चोपचारैः सम्पूज्य,
द्वितीययामे गौरीपूजनम्- ध्यानम्*शिखरिणीछंदः- नवीनार्क भ्राजन्मणि कनक भूषा परिकरैः वृताङ्गी सारङ्गी रुचिर नयनाङ्गी कृतशिवा|| तडित्पीता पीताम्बर ललित मञ्जिर सुभगा ममाऽपर्णा पूर्णा निरवधि सुखै रस्तु सुमुखी|| पाद्यादि यथा लाभोपचारैः सम्पूज्य" प्रार्थना- भवानि स्तोतुं त्वां प्रभवति चतुर्भि र्न वदनैः प्रजानामीशान स्त्रिपुर मथन पञ्चभिरपि|| न षड्भिः सेनानी र्दशशतमुखै रप्यहिपति स्तदाऽन्येषां केषां कथय कथमस्मिन्नवसरः|| स्रग्धरा- क्रीं क्रीं क्रीं ऐं कुमारी  कुह कुह मखिले कोकिले मानुरागे मुद्रा संज्ञत्रिरेखां कुरु कुरु सततं श्री महामारि गुह्ये|| तेजोंगे सिद्धिनाथे मनुपवन चले नैव आज्ञा निधाने ऐंकारि रात्रिमध्ये शयित पशुजने तंत्रकांते नमस्ते|| शिवपूजनाङ्ग तत्त्व त्रयेण ॐह्रां आत्मतत्त्वाय स्वाहा" ॐह्रीं विद्यातत्त्वाय स्वाहा" ॐह्रूं शिवतत्त्वाय स्वाहा" इति आचम्य ॐह्रां ह्रीं ह्रूं सर्वतत्त्वाय स्वाहा इति हस्तं प्रक्षाल्य"शिवअष्टाक्षरी मन्त्रेण त्रिः प्राणायामं कुर्यात्- ह्रीं ॐनमः शिवाय ह्रीं " पूजनादौ स्वदेह शुद्ध्यर्थं महान्यासान्तरे चतुर्थो न्यासं कृत्वा श्रीकण्ठादिन्यसेत्- अस्य श्री श्रीकण्ठादि न्यासस्य दक्षिणामूर्ति ऋषिः गायत्री छंदः अर्धनारीश्वरो देवता हलो बीजानी स्वराः शक्तयः यामपूजायां स्वदेहशुद्ध्यर्थं न्यासे विनियोगः- ऋष्यादि न्यासाः- ॐदक्षिणामूर्तिर्ऋषये नमः शिरसि" ॐगायत्री छंदसे नमो मुखे" ॐअर्धनारीश्वरदेवतायै नमः हृदये" ॐहलो बीजेभ्योनमः गुह्ये(हस्तं०प्र०) ॐस्वराः शक्तिभ्योनमः पादयोः पूजनादौ न्यासे विनियोगाय नमः सर्वांगे" कराङ्गन्यासाः- ॐह्सां अंगुष्ठाभ्यां नमः" ॐह्सीं तर्जनीभ्यां नमः " ॐह्सूं मध्यमाभ्यां नमः" ॐह्सैँ अनामिकाभ्यां नमः " ॐह्सौं कनिष्ठिकाभ्यां नमः " ॐह्सः करतलकरपृष्ठाभ्यां नमः " एवमेव हृदयादि षडंगानि न्यसेत् " ध्यानम्- पाशांकुश वराक्षस्रक्पाणि शीतांशुशेखरम्|| त्र्यक्षं रक्त सुवर्णाभ मर्धनारीश्वरं भजेत्" वसन्ततिलका- बन्धूक कांचननिभं रुचिराक्षमालां, पाशांकुशौ च वरदं निजबाहु दंडैः|| बिभ्राणमिन्दु शकला भरणं त्रिनेत्रमर्धाम्बिकेश मनिशं वपुराश्रयामः|| श्रीखण्डाद्यान्यसेत्- ॐह्सौं अं श्रीकंठेश पूर्णोदरीभ्यां नमः मस्तके" ॐह्सौं आँ अनंतेश शिवराजाभ्यां नमः आननवृत्ते(मुखमण्डलपर)" ॐह्सौं इं सूक्ष्मेश शाल्मलीभ्यां नमः दक्षिणनेत्रे" ॐह्सौं ईं त्रिमूर्ति लोलाक्षीभ्यां नमः वामनेत्रे"ॐह्सौं उं अमरेश वर्तुलाक्षीभ्यां नमः दक्षिण कर्णे" ॐह्सौं ऊं अर्थीश दीर्घघोणाभ्यां नमः वामकर्णे" ॐह्सौं ऋं भारभूतीश दीर्घमुखीभ्यां नमः दक्षिण नासापुटे" ॐह्सौं ॠंवअतिथीशगोमुखीभ्यां नमः वामनासापुटे" ॐह्सौं लृं स्थाण्वीशदीर्घजिह्वाभ्यां नमः दक्षिणगंडे" ॐह्सौं लॄं हरेशकुंडोदरीभ्यां नमः वामगंडे" ॐह्सौं एं झिण्टिशोर्ध्वकेशीभ्यां नमः ऊर्ध्वोष्ठे" ॐह्सौं ऐं भौतिकेश विकृतमुखीभ्यां नमः अधरोष्ठे" ॐह्सौं ओं सद्योजातेशज्वालामुखीभ्यां नमः ऊर्ध्वदंतपङ्तौ" ॐह्सौं औं अनुग्रहेशोल्कामुखीभ्यां नमः अधोदंतपङ्तौ" ॐह्सौं अंल अक्रूरेशश्रीमुखीभ्यांनमः शिरसि" ॐह्सौं  अः महासेनेश विद्यामुखीभ्यां नमः मुखमध्ये" ॐह्सौं कं क्रोधीशमहाकालीभ्यां नमःदक्षिणस्कन्धे" ॐह्सौं खं चंडेशसरस्वतीभ्यां नमःदक्षिणकूर्परे(दायीं कोहनी) ॐह्सौं गं पञ्चांतकेशगौरीभ्यां नमः दक्षिणमणिबंधे"ॐह्सौं घं शिवोत्तमेशत्रैलोक्यविजयाभ्यां नमः दक्षिणहस्तांगुलिमूले" ॐह्सौं ङं एकरुद्रेश मंत्रशक्तिभ्यां नमः दक्षहस्तांगुल्यग्रे" ॐह्सौं चं कर्मेशात्मशक्तिभ्यां नमः वामस्कन्धे" ॐह्सौं छं एकाननेश भूतमातृकाभ्यां नमः वामकूर्परे" ॐह्सौं जं चतुराननेश लम्बोदरीभ्यां नमः वाममणिबन्धे" ॐह्सौं झं अंजेशद्वविणीभ्यां नमः वामहस्तांगुलिमूले" ॐह्सौं ञं सर्वेश नागरीभ्यां नमः वामहस्तांगुल्यग्रे" ॐह्सौं टं सोमेशखेचरीभ्यां नमः दक्षपादमूले" ॐह्सौं ठं लंगलीशमंजरीभ्यां नमः दक्षिणजानुनि" ॐह्सौं डं दारुकेशभागिनीभ्यां नमः दक्षिणगुल्फे" ॐह्सौं ढं अर्धनारीश्वरेशवारुणीभ्यां नमः दक्षपादांगुलिमूले"  " ॐह्सौं णं उमाकांतेश वृकोदरीभ्यां नमः दक्षपादांगुल्यग्रे"ॐह्सौं तं आषाढीश पूतनाभ्यांनमः वामपादमूले" ॐह्सौं थं दंडीशभद्रकालीभ्यां नमः वामजानुनि"  ॐह्सौं दं अत्रीशयोगिनीभ्यांनमः वामगुल्फे" ॐह्सौं धं मीनेशशंखिनीभ्यां नमः वामपादांगुलि मूले" ॐह्सौं नं मेषेशतर्जनीभ्यांनमः वामपादांगुल्यग्रे "  ॐह्सौं पं लोहितेश कालरात्रिभ्यां नमः दक्षिणकुक्षौ" ॐह्सौं फं शिखीशकुण्डलिनीभ्यांनमः वामकुक्षौ" ॐह्सौं बं छागलेशकपर्दिनीभ्यांनमः पृष्ठे" ॐह्सौं भं द्विरण्डेशवज्राभ्यांनमः नाभौ" ॐह्सौं मं महाकालेशजयाभ्यां नमः उदरे" ॐह्सौं यं त्वगात्मभ्यां वालीशसुमुखेश्वरीभ्यां नमः हृदये" ॐह्सौं रं असृगात्मभ्यांनभुजंगेशरेवतीभ्यां नमः दक्षांसे" ॐह्सौं लं मासांत्मभ्यांपिनाकीश माधवीभ्यांनमः ककुदी"(किडनी) ॐह्सौं वं मेदात्मभ्यां खड्गीशवारुणीभ्यां नमः वामांसे" ॐह्सौं शं अस्थ्यात्मभ्यां केशवायवीभ्यां नमः हृदयादि दक्षकराग्रान्तम्" ॐह्सौं षं मज्जात्मभ्यां श्वेतेशरक्षोवधारिणीभ्यां नमः हृदयादिवामकराग्रान्तम्" ॐह्सौं सं शुक्रात्मभ्यां भृग्वीश सहजाभ्यांनमः हृदयादिवामपादान्तम्" ॐह्सौं  हं प्राणात्मभ्यां लकुलीशलक्ष्मीभ्यांनमः हृदयायादिदक्षपादांतम्" ॐह्सौं ळं शक्त्यात्मभ्यां शिवेशव्यापिनीभ्यां नमः हृदयादिनाभ्यन्तम्" ॐह्सौं क्षं परमात्मभ्यां संवर्तकेश मायाभ्यांनमः हृदयादिशिरोंतम्" अत्ररुद्रास्मृतारक्ता धृतशूलकपालकाः|| शक्तयोरुद्रपीठस्थाः सिंदूरारुणविग्रहाः||

अस्यश्री शिवाष्टाक्षरी मंत्रस्य वामदेव ऋषिः पंक्ति श्छंदः उमापतिर्देवता पूजनादौ न्यासे विनियोगः- वामदेवर्षये नमः शिरसि" पंक्तिश्छंदसे नमो मुखे" उमापतिर्देवतायै नमः हृदये" विनियोगाय नमः सर्वांगे" ह्रीं ॐ अंगुष्ठाभ्यां नमः" नं तर्जनीभ्यां नमः" मं मध्यमाभ्यां नमः" शिं अनामिकाभ्यां नमः" वां कनिष्ठिकाभ्यां नमः" यं ह्रीं करतलकरपृष्ठाभ्यां नमः" एवमेव हृदयादिषडङ्गं न्यसेत्" दक्षिणभागे साधारस्य ताम्रपात्रस्य स्थापनं कृत्वा-अक्षतैः पूजयेत्-  ॐजातवेदसे० दशकलात्मने अग्नये नमः, ॐसूर्ज्जरश्मि० द्वादशकलात्मने सूर्य्याय नमः, ह्रीं ॐनमः शिवाय ह्रीं  इत्यस्य वामदेव ऋषिः पङ्क्ति श्छंदः उमापतिर्देवता अर्घ पूरणे विनियोगः, ह्रीं ॐनमःशिवाय ह्रीं इति पात्रे तीर्थोदकमापूर्य, अक्षतैः पूजयेत्- ॐत्र्यम्बकं० षोडशकलात्मने चन्द्राय नमः, तस्मिन् गंधाक्षतपुष्पाणि प्रक्षिप्य, ह्रीं ॐनमः शिवाय ह्रीं इति अष्टवारं अभिमन्त्र्य, पूजासम्भारान् अनैनावार्घोदकेन प्रोक्षयेत्- ह्रीं ॐनमः शिवाय ह्रीं शिवार्चन कालेषु यानि यानिह साम्प्रतम्|| वस्तुनि सौरभाढ्यानि पवित्राणि भवन्तु वै|| किंचित् अर्घोदकबिन्दुं पूजार्थं गृहितकलशे निक्षिप्य."  बाणलिंग मूर्तौ अग्न्युत्तारण पूर्वकं प्राणप्रतिष्ठापनम् च आवाहनम् (स्वभुवे रसलिंगे बाणलिंगे आत्मलिंगे वायुलिंगे वा ज्योतिर्लिंगे प्राणप्रतिष्ठा  नैवम्)  द्वितीययामे ध्यानम्- बंधूकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं हस्तैः शूलं कपालं वरदमभयदं चारुहासं भजामि|| वामोरुस्तं भगायाः करतल विलसच्चारुरक्तोत्पलाया हस्तेना श्लिष्ट देहं मणिमय विलसद्भूषणायाः प्रियाया:||ॐभूर्भुवःस्वः उमापतये(अमुक महादेवाय) नमः इत्यनेन  आसन,पाद्य,अर्घ्य. आचमन,स्नान, पञ्चामृतस्नान, गंधोदकस्नान,सुगंधीतैलस्नान, आमलकद्रवस्नान, कुशोदकस्नान,गर्भोदकस्नान, षडंगरुद्रेण वा पुराणोक्ते ब्रह्मशिलादसंवादे नमकचमकानुवाकेन अभिषेक द्वितीय प्रहरे ॐईशानाय नमः इति दध्ना (प्रहरपूजायां लघुरुद्राभिषेकस्य आवश्यक्ता नैव केवलं प्रहरपूजा विशेषार्थो ज्ञेयः)  ,शुद्धोदकस्नान,वस्त्र, उपवीत, अलंकार,अस्त्र शस्त्र आयुध, द्वितीयप्रहरे ॐमहेश्वराय नमः इति गंधम्, द्वितीयप्रहरोक्त गोधूमाक्षत धान्य,प्रहरोक्त अर्कपुष्प,पुष्पहार,बिल्वपत्राद्यैः पूजनं कृत्वा पञ्चवक्त्रपूजनम्(  यथोक्त पूजाद्रव्यैः)  गंधाक्षतैः अङ्गपूजा, देववामभागे शक्तिपूजा,गणपूजा  एकादशरुद्रपूजा, द्वादशलिङ्गपूजा, १०८बिल्वपत्रैः अष्टोत्तरशतनाम मंत्राभिः सम्पूज्य, सौभाग्यद्रव्य, धूपनिवेदन विधिः- धूपपात्रं अर्घोदकेन संप्रोक्ष्य. अंगारान् रं इति संस्थाप्य, गुग्गुलं निक्षिपेत् ह्रीं ॐनमः शिवाय ह्रीं  इति धूपं कृत्वा. गंधपुष्पाभ्यां नमः इति सम्पूज्य,घंटा पूजनम्- ह्रीं जगत् ध्वनि मंत्रमातः स्वाहा" घंटां वादयन् दक्षकरेण किंचिद् अर्घोदकमादाय वामतर्जन्या धूपपात्रं स्पृष्ट्वा ॐ धूरसि० सांगाय सपरिवाराय(अमुक महादेवाय)  साम्बसदाशिव महारुद्राय नमः धूपं समर्पयामि, देवस्य नाभौ धूपं दत्वा धूपपात्रं देववामभागे निधाय. तर्जन्यङ्गुष्ठयोगेन धूप मुद्रां प्रदर्श्य,

दीपनिवेदन विधिः- दीपपात्रं अर्घोदकेन अस्त्राय फट् इति प्रोक्ष्य. गोघृतेनापूर्य.पञ्चतंतुभिः वर्तिन्निक्षिप्य, ह्रीं ॐनमः शिवाय ह्रीं  इति प्रज्वाल्य, नमः इति सम्पूज्य. ॐसुजातो० सांगाय सपरिवाराय(अमुक महादेवाय) साम्बसदाशिवाय महारुद्राय नमः इति वदन् मस्तकादि पादान्तं दीपं प्रदर्शयेत्.देव दक्षिणे दीपपात्रं निधाय, अर्घोदकमादाय साम्बसदाशिवाय (अमुक महादेवाय) नमः दीपं दर्शयामि, मध्यमाङ्गुष्ठ योगेन दीपमुद्रां प्रदर्श्य.

नैवेद्य निवेदन विधिः- देवस्याग्रे जलेन चतुरस्र मंडलं कृत्वा तस्योपरि भोजनपात्रं निधाय.पात्रे द्वितीयप्रहरोक्त "माषमय अपूप"  नैवेद्यं पूरयित्वा. अस्त्राय फट् इति अर्घोदकेन प्रोक्ष्य. मुकुलमुद्रारित्या सर्वतोदिशी  चक्राकारं भ्रामयित्वा चक्रमुद्रां दर्शयन् नैवेद्यं संरक्ष्य. ह्रीं ॐनमः शिवाय ह्रीं इति मूलेन संवीक्ष्य,अधोमुख दक्षिण हस्तोपरि तादृशं वामहस्तं निधाय नैवेद्यमाच्छाद्य यं इति वायुबीजं षोडशवारं संजप्य वायुना तद्गत सम्भवित दोषान् संशोध्य. ततो दक्षिण करतले तत्पृष्ठ लग्न वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य रं इति वह्निबीजं षोडशवारं जप्त्वा तदुत्पन्नाग्निना तद्दोषं दग्ध्वा, ततो वाम करतले वं इति सुधाबीजं विचिन्त्य तत्पृष्ठ लग्न दक्षिण करतलं कृत्वा नैवेद्यं प्रदर्श्य वं इति षोडशवारं संजप्य.तदुत्थामृत धारयाप्लावितं विभाव्य ह्रीं ॐनमः शिवाय ह्रीं  इति अर्घोदकेन प्रोक्ष्य. धेनुमुद्रया अमृतिकृत्य ह्रीं  ॐनमःशिवाय ह्रीं" इति मूलेनाष्टवारमभिमन्त्र्य. गंधपुष्पाभ्या सम्पूज्य. देवस्योद्गत तेजं स्मृत्वा वामांगुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिण करेण किंचिद् अर्घोदकं गृहित्वा ॐनमोऽस्तु रुद्रेभ्यो जे पृथ्व्यां० सांगाय सपरिवाराय (अमुक महादेवाय) उमापतये नमः नैवेद्यं समर्पयामि. ॐअमृतोपस्तरणमसि स्वाहा-इति भूतले जलं क्षिप्त्वा. वाम हस्तेन नैवेद्य मुद्रां(अनामिकांगुष्ठ योगेन) प्रदर्श्य, सपुष्पकराभ्यां पात्रमुद्धरन् भगवतः(अमुक महादेवः) उमापति र्निवेदितानि हवीषिं जुषाण. सर्वांगुलिभिः ग्रासमुद्रां प्रदर्श्य..

प्राणाद्यैः मुद्राभिः( कनिष्ठिकानामिकांगुष्ठ योगेन- ॐप्राणाय स्वाहा" तर्जन्यङ्गुष्ठमध्यमाभिः-  ॐअपानाय स्वाहा" तर्जन्यंगुष्ठमध्यमानामिकाभिः- ॐव्यानाय स्वाहा" मध्यमानामिकांगुष्ठैः ॐउदानाय स्वाहा" सर्वांगुलिभिः ॐसमानाय स्वाहा") देवता भुंजानं ध्यात्वा जलं दद्यात्- (चषकपात्रे) ॐनमस्ते देवदेवेश सर्वतृप्तिकरं परम्| अखंडानंद सम्पूर्ण गृहाण जलमुत्तमम्|| भगवन् तज्जल प्राशितमिति भावयन् अंतःपटं कृत्वा ॐअन्नात् परिस्रुतो० ब्रह्मेशाद्यैः सरसभमितः सूपविष्टैः समन्तात् सिंजद्व्याल व्यजननिकरैः विज्यमानो  वयस्यैः||० आचमन- शीतलं मधुरं स्वच्छं पावनं वासितं लघु|| मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो|| पुनः प्राणाद्यैः मुद्राभिः यथा शक्तिः ॐनमः शिवाय  इति मूलं संजप्य जलेन- ॐअमृतापिधानमसि स्वाहा- उत्तरापोषानादिकं दद्यात्
करोद्वर्तन,मुखवास,-अन्ते पुनराचमन, दक्षिणा, नीराजन,प्रदक्षिणा, मंत्रपुष्पाञ्जलिः, विशाषार्घ- द्वितीय यामे- मातुलिंगेन(बीजपूरक) " ॐजाःफलिनी० ॐमया कृतान्यनेकानि पातकानि च शंकर|| गृहाणार्घ्यं उमाकांत शिवरात्रौ प्रसीद मे|| नमः शिवाय शांताय सर्वपाप हराय च||शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमया सह||
प्रार्थना- बाल्ये दुःखाति रेकान्मल लुलितवपुः स्तन्यपाने पिपासु- र्नो शक्तश्चेन्द्रियेभ्यो भवमल जनिता जन्तवो मां तुदन्ति|| नाना रोगातिदुःखा द्रुदित परवशः शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो|| प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्म संधौ दष्टो नष्टो विवेकः सुत धन युवति स्वाद सौख्ये निषण्णः|| शैवे चिन्ता विहीनं मम हृदय महो मान गर्वाधिरुढं क्षन्तव्यो मे००० || वार्धक्ये चेन्द्रियाणां विकलगतिमत श्चाधिदैवादि तापैः प्राप्तेै र्रोगै र्वियोगै र्व्यसन कृशतनो र्ज्ञप्तिहीनं च दीनम्|| मिथ्या मोहाभिलाषै र्भवति मम मनो धूर्जटे र्ध्यान शून्यं क्षन्तव्यो मे०००||  ह्रीं ॐनमः शिवाय ह्रीं इति अष्टोत्तरशतं वा अष्टाविंशतिवारं जप्त्वा अर्घ्योदकमादाय ॐ गुह्याति गुह्य० तज्जलं देवदक्षिणकरं स्मृत्वा दद्यात्"

ॐएषते रुद्र० इति इषु योनि त्रिशूल पद्म कालकर्णिक धेनुमुद्रा इति षष्ठमुद्राः प्रदर्शयेत्"

इमारुद्रायेति कुत्स ऋषिः जगती छंदः एकोरुद्रो देवता पूजा निवेदने विनियोगः- अर्घोदकेन* यथा ज्ञानेन यथा मिलितोपचारद्रव्यैः शिवरात्रौ द्वितीययाम पूजन कर्मणा कृतेन भगवान्परमात्मा सपरिवारः(अमुक महादेव) उमापतिः प्रीयताम् " द्रापे इत्यस्य परमेष्ठी ऋषिः उपरिष्ठाद् बृहती छंदः एकोरुद्रो देवता अष्टांग प्रणामे विनियोगः- उरसा शिरसा दृष्ट्या मनसा वचसा तथा| पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग उच्यते|| ततो पूर्व स्थापित अर्घ्यपात्र मुत्थाप्य ॐनमः शिवाय" साधु वा ऽसाधु वा कर्म यद्यदाचरितं मया|| तत्सर्वं कृपया शंभो गृहाणाराधनं मम|| इति शिवोपरि भ्रामयित्वा श्री(अमुक महादेवाय) उमापतये नमः पुनरर्घ्यं समर्पयामि इति देवस्य दक्षकरे समर्प्य..

हस्ते पुनरर्घ्योदकं गृहीत्वा- ॐइतःपूर्वं  प्राण बुद्धि देह धर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्कृतं यत्स्मृतं यदुक्तं तत्सर्वं ब्रह्मार्पण मस्तु मां मदीयं सकलं श्रीउमापतिः (अमुक महादेवार्पण) मस्तु|| ॐतत्सत् इति द्वितीयप्रहर पूजा......

ॐस्वस्ति ||  शास्त्री पुलकित  || शेष पुनः

No comments:

Post a Comment

पूजा आदि में सिर नहीं ढंका चाहिए

शास्त्र प्रमाण:- उष्णीषो कञ्चुकी चात्र मुक्तकेशी गलावृतः ।  प्रलपन् कम्पनश्चैव तत्कृतो निष्फलो जपः ॥ अर्थात् - पगड़ी पहनकर, कुर्ता पहनकर, नग...