#शिवरात्रौ-
तृतीय याम पूजनम्====
ॐह्रीं ह्रौं नमः शिवाय इति मूलेन स्वाहान्तं त्रिराचम्य" तेनैव अष्टाक्षरी मंत्रेण त्रिः प्राणानायम्य"सुमुखश्चेत्यादि पठित्वा एतत् कर्म प्रधान देवता सांगाय सपरिवाराय(अमुक महादेवाय)नमः संकल्पः- शिवरात्रौ सूचित तृतीय याम शिवपूजां करिष्ये" गणपतिं पञ्चोपचारैः सम्पूज्य" तृतीय प्रहरे गौरी पूजा- ध्यानम्* शार्दूल विक्रिडीतम्- वेधाः पादतले पतत्य यमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि दृगंचलं सुरपतिं दूरस्थ मालोकय|| इत्येवं परिचारिका भिरुदिते संमाननां कुर्वती दृग्द्वंद्वन् यथोचितं भगवती भूयाद्विभूत्यै मम|| पाद्यादि दशोपचारै र्वा षोडशोपचारैः सम्पूज्य" प्रार्थना- पुष्पिताग्रा* शिरसि धृत सुरापगे स्मरा रावरुण मुखेन्दु रुचि र्गिरीन्द्रपुत्री|| अथ चरण युगानते स्वकान्ते स्मित सरसा भवतोऽस्तु भूति हेतुः|| स्रग्धरा- हंसि त्वं शौड दुःखं शमित भव भये सर्व विघ्नांत कार्ये गां गीं गूं गैं षडंगे गगनगति तटे सिद्धिदे सिद्धिसाध्ये|| क्रूं क्रूं मुद्रा गजांशो गसपवन गते त्र्यक्षरे वै कराले ॐहीं हूं गां गणेशी गजमुख जननी त्वं गणेशी नमस्ते|| वसन्त तिलका- ब्रह्मादयोऽपि यदपांग तरंग भङ्या सृष्टि स्थिति प्रलय कारणतां व्रजंति|| लावण्य वारिनिधिविचि परिप्लुतायै तस्यै नमोऽस्तु सततं हर वल्लभायै||
पूजनादौ स्वदेह शुद्ध्यर्थं महान्यासान्तरे पञ्चमो षडंगरुद्रन्यास श्च षष्ठो न्यासं कृत्वा" ॐह्रीं ह्रौं नमः शिवायेति अष्टाक्षरी महादेव मंत्रस्य वामदेवर्षिः पंक्ति श्छंदः महादेवो देवता ॐबीजम् ह्रीं शक्तिः ह्रौं कीलकं पूजनादौ न्यासे विनियोगः- वामदेवर्षये नमः शिरसि" पंक्ति श्छंदसे नमः मुखे" महादेवो देवतायै नमो हृदये" ॐबीजाय नमो गुह्ये ह्रीं शक्तये नमः पादयोः " ह्रौं कीलकाय नमः नाभौ" पूजनादौ न्यासे विनियोगाय नमः सर्वांगे" ॐह्रीं ह्रौं अंगुष्ठाभ्यां नमः " ॐह्रीं ह्रौं नं तर्जनीभ्यां नमः " ॐह्रीं ह्रौं मं मध्यमाभ्यां नमः " ॐह्रीं ह्रौं शिं अनामिकाभ्यां नमः " ॐह्रीं ह्रौं वां कनिष्ठिकाभ्यां नमः " ॐह्रीं ह्रौं यं करतलकरपृष्ठाभ्यां नमः" एवमेवं हृदयादि षडंगानि विन्यस्य"
दक्षिणभागे साधारस्य ताम्रपात्रस्य स्थापनं कृत्वा-अक्षतैः पूजयेत्- ॐजातवेदसे० दशकलात्मने अग्नये नमः, ॐसूर्ज्जरश्मि० द्वादशकलात्मने सूर्य्याय नमः,ॐह्रीं ह्रौं नमः शिवाय इत्यस्य वामदेव ऋषिः पङ्क्ति श्छंदः महादेवो देवता अर्घ पूरणे विनियोगः, ॐह्रीं ह्रौं नमःशिवाय पात्रे तीर्थोदकमापूर्य, अक्षतैः पूजयेत्- ॐत्र्यम्बकं० षोडशकलात्मने चन्द्राय नमः, तस्मिन् गंधाक्षतपुष्पाणि प्रक्षिप्य, ॐह्रीं ह्रौं नमः शिवाय इति अष्टवारं अभिमन्त्र्य, पूजासम्भारान् अनैनावार्घोदकेन प्रोक्षयेत्- ॐह्रीं ह्रौं नमः शिवाय शिवार्चन कालेषु यानि यानिह साम्प्रतम्|| वस्तुनि सौरभाढ्यानि पवित्राणि भवन्तु वै|| किंचित् अर्घोदकबिन्दुं पूजार्थं गृहितकलशे निक्षिप्य." बाणलिंग मूर्तौ अग्न्युत्तारण पूर्वकं प्राणप्रतिष्ठापनम् च आवाहनम् (स्वयंभुवे रसलिंगे बाणलिंगे आत्मलिंगे वायुलिंगे वा ज्योतिर्लिंगे प्राणप्रतिष्ठा नैवम्) ध्यानम्* स्रगधरा- वंदे सिंदूरवर्णं मणि मुकुट लसच्चारु चन्द्रावतसं भालोद्यन्नेत्रमीशं स्मितमुख कमलं दिव्य भूषांग रागं|| वामोरुन्यस्त पाणेररुण कुवलयं संदधत्या: प्रियाया वृत्तोत्तगस्तनाग्रे निहितकरतलं वेद टंकेष्टहस्तम्|| ॐभूर्भुवःस्वः (अमुक) महादेवाय नमः इति आसन,पाद्य,अर्घ्य. आचमन, स्नान,पञ्चामृतस्नान, गंधोदकस्नान,सुगंधीतैलस्नान, आमलकद्रवस्नान, कुशोदकस्नान,गर्भोदकस्नान, षडंगरुद्रेण वा पुराणोक्ते ब्रह्मशिलादसंवादे नमकचमकानुवाकेन अभिषेकः तृतीय प्रहरे ॐवामदेवाय नमः इति घृतेनाभिषेकम् (प्रहरपूजायां लघुरुद्राभिषेकस्य आवश्यक्ता नैव केवलं प्रहरपूजा विशेषार्थो ज्ञेयः),शुद्धोदकस्नान,वस्त्र, उपवीत, अलंकार,अस्त्र शस्त्र आयुध, तृतीयप्रहरे ॐशंराय नमःइति गंधम् .तृतीयप्रहरोक्त गोधूमाक्षत धान्य,प्रहरोक्त अर्कपुष्पाणि अन्यऋतुकालोद्भव पुष्पाणि, पुष्पहार,बिल्वपत्राद्यैः पूजनं कृत्वा पञ्चवक्त्रपूजनम्( यथोक्त पूजाद्रव्यैः) गंधाक्षतैः अङ्गपूजा, देववामभागे शक्तिपूजा,गणपूजा एकादशरुद्रपूजा, द्वादशलिङ्गपूजा, १०८बिल्वपत्रैः अष्टोत्तरशतनाम मंत्राभिः सम्पूज्य, सौभाग्यद्रव्य, धूपनिवेदन विधिः- धूपपात्रं अर्घोदकेन संप्रोक्ष्य. अंगारान् रं इति संस्थाप्य, गुग्गुलं निक्षिपेत् ॐह्रीं ह्रौं नमः शिवाय इति धूपं कृत्वा. गंधपुष्पाभ्यां नमः इति सम्पूज्य,घंटा पूजनम्- ह्रीं जगत् ध्वनि मंत्रमातः स्वाहा" घंटां वादयन् दक्षकरेण किंचिद् अर्घोदकमादाय वामतर्जन्या धधूपपात्रं स्पृष्ट्वा ॐ धूरसि० सांगाय सपरिवाराय(अमुक महादेवाय) नमः धूपं समर्पयामि, देवस्य नाभौ धूपं दत्वा धूपपात्रं देववामभागे निधाय. तर्जन्यङ्गुष्ठयोगेन धूप मुद्रां प्रदर्श्य,
दीपनिवेदन विधिः- दीपपात्रं अर्घोदकेन अस्त्राय फट् इति प्रोक्ष्य. गोघृतेनापूर्य.पञ्चतंतुभिः वर्तिन्निक्षिप्य, ॐह्रीं ह्रौं नमः शिवाय इति प्रज्वाल्य, नमः इति सम्पूज्य. ॐसुजातो० सांगाय सपरिवाराय(अमुक महादेवाय) नमः इति वदन् मस्तकादि पादान्तं दीपं प्रदर्शयेत्.देव दक्षिणे दीपपात्रं निधाय, अर्घोदकमादाय (अमुक महादेवाय) नमः दीपं दर्शयामि, मध्यमाङ्गुष्ठ योगेन दीपमुद्रां प्रदर्श्य.
नैवेद्य निवेदन विधिः- देवस्याग्रे जलेन चतुरस्र मंडलं कृत्वा तस्योपरि भोजनपात्रं निधाय.पात्रे तृतीयप्रहरोक्त चणकान्न(मगस -मोहनथाल)नैवेद्यं पूरयित्वा. अस्त्राय फट् इति अर्घोदकेन प्रोक्ष्य. मुकुलमुद्रारित्या सर्वतोदिशी चक्राकारं भ्रामयित्वा चक्रमुद्रां दर्शयन् नैवेद्यं संरक्ष्य. ॐह्रीं ह्रौं नमः शिवाय इति मूलेन संवीक्ष्य,अधोमुख दक्षिण हस्तोपरि तादृशं वामहस्तं निधाय नैवेद्यमाच्छाद्य यं इति वायुबीजं षोडशवारं संजप्य वायुना तद्गत सम्भवित दोषान् संशोध्य. ततो दक्षिण करतले तत्पृष्ठ लग्न वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य रं इति वह्निबीजं षोडशवारं जप्त्वा तदुत्पन्नाग्निना तद्दोषं दग्ध्वा, ततो वाम करतले वं इति सुधाबीजं विचिन्त्य तत्पृष्ठ लग्न दक्षिण करतलं कृत्वा नैवेद्यं प्रदर्श्य वं इति षोडशवारं संजप्य.तदुत्थामृत धारयाप्लावितं विभाव्य ॐह्रीं ह्रौं नमः शिवाय इति अर्घोदकेन प्रोक्ष्य. धेनुमुद्रया अमृतीकृत्य ॐह्रीं ह्रौं नमःशिवाय" इति मूलेनाष्टवारमभिमन्त्र्य. गंधपुष्पाभ्या सम्पूज्य. देवस्योद्गत तेजं स्मृत्वा वामांगुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिण करेण किंचिद् अर्घोदकं गृहित्वा ॐनमोऽस्तु रुद्रेभ्यो जे पृथ्व्यां० सांगाय सपरिवाराय (अमुक महादेवाय) नमः नैवेद्यं समर्पयामि. ॐअमृतोपस्तरणमसि स्वाहा-इति भूतले जलं क्षिप्त्वा. वाम हस्तेन नैवेद्य मुद्रां(अनामिकांगुष्ठ योगेन) प्रदर्श्य, सपुष्पकराभ्यां पात्रमुद्धरन् भगवतः(अमुक महादेवः) उमापति र्निवेदितानि हवीषिं जुषाण. सर्वांगुलिभिः ग्रासमुद्रां प्रदर्श्य..
प्राणाद्यैः मुद्राभिः(कनिष्ठिकानामिकांगुष्ठ योगेन- ॐप्राणाय स्वाहा" तर्जन्यङ्गुष्ठमध्यमाभिः- ॐअपानाय स्वाहा" तर्जन्यंगुष्ठमध्यमानामिकाभिः- ॐव्यानाय स्वाहा" मध्यमानामिकांगुष्ठैः ॐउदानाय स्वाहा" सर्वांगुलिभिः ॐसमानाय स्वाहा") देवता भुंजानं ध्यात्वा जलं दद्यात्- (चषकपात्रे) ॐनमस्ते देवदेवेश सर्वतृप्तिकरं परम्| अखंडानंद सम्पूर्ण गृहाण जलमुत्तमम्|| भगवन् तज्जल प्राशितमिति भावयन् अंतःपटं कृत्वा ॐअन्नात् परिस्रुतो० ब्रह्मेशाद्यैः सरसभमितः सूपविष्टैः समन्तात् सिंजद्व्याल व्यजननिकरैः विज्यमानो वयस्यैः||० आचमन- शीतलं मधुरं स्वच्छं पावनं वासितं लघु|| मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो|| पुनः प्राणाद्यैः मुद्राभिः यथा शक्तिः ॐह्रीं ह्रौं नमः शिवाय इति मूलं संजप्य जलेन- ॐअमृतापिधानमसि स्वाहा- उत्तरापोषानादिकं दद्यात्
करोद्वर्तन,मुखवास,-अन्ते पुनराचमन, दक्षिणा, नीराजन,प्रदक्षिणा, मंत्रपुष्पाञ्जलिः, विशाषार्घ- तृतीययामे- दाडिमार्घ्येण" ॐजाःफलिनी० ॐदुःख दारिद्र्य भारैश्च दग्धोऽहं पार्वतीपते||मा त्वं त्राहि महादेव गृहाणार्घ्यं इदं प्रभो|| दुःख दारिद्र च शोकेन दग्धोऽहं पार्वतीपते|| शिवरात्रौ ददाम्यर्घ्यं उमाकांत गृहाण मे||
प्रार्थना- वसन्ततिलका- दुःस्वप्न दुश्शकुन दुर्गति दौर्मनस्य दुर्भिक्ष दुर्व्यसन दुस्सह दुर्यशांसि| उत्पात ताप विष भीतिमसद् ग्रहार्ति व्याधींश्च नाशयतु मे जगतामधीश|| कुण्डली कृत कुण्डलेश्वर कुंडलं वृषवाहनं नारदादि मुनीश्वर स्तुत वैभवं भुवनेश्वरम्|| अंधकांधक माश्रिता मर पादपं शमनान्तकं चन्द्रशेखर माश्रये मम किं करिष्यति वै यमः|| ॐ ह्रीं ह्रौं नमः शिवाय इति अष्टोत्तरशतं वा अष्टाविंशतिवारं जप्त्वा अर्घ्योदकमादाय ॐ गुह्याति गुह्य० तज्जलं देवदक्षिणकरं स्मृत्वा दद्यात्"
ॐएषते रुद्र० इति इषु योनि त्रिशूल पद्म कालकर्णिक धेनुमुद्रा इति षष्ठमुद्राः प्रदर्शयेत्"
इमारुद्रायेति कुत्स ऋषिः जगती छंदः एकोरुद्रो देवता पूजा निवेदने विनियोगः- अर्घोदकेन* यथा ज्ञानेन यथा मिलितोपचारद्रव्यैः शिवरात्रौ द्वितीययाम पूजन कर्मणा कृतेन भगवान्परमात्मा सपरिवारः(अमुक महादेव) उमापतिः प्रीयताम् " द्रापे इत्यस्य परमेष्ठी ऋषिः उपरिष्ठाद् बृहती छंदः एकोरुद्रो देवता अष्टांग प्रणामे विनियोगः- उरसा शिरसा दृष्ट्या मनसा वचसा तथा| पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग उच्यते|| ततो पूर्व स्थापित अर्घ्यपात्र मुत्थाप्य ॐह्रीं ह्रौं नमः शिवाय" साधु वा ऽसाधु वा कर्म यद्यदाचरितं मया|| तत्सर्वं कृपया शंभो गृहाणाराधनं मम|| इति शिवोपरि भ्रामयित्वा श्री(अमुक महादेवाय) नमः पुनरर्घ्यं समर्पयामि इति देवस्य दक्षकरे समर्प्य..
हस्ते पुनर्अर्घ्योदकं गृहीत्वा- ॐइतःपूर्वं प्राण बुद्धि देह धर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्कृतं यत्स्मृतं यदुक्तं तत्सर्वं ब्रह्मार्पण मस्तु मां मदीयं सकलं श्री(अमुक महादेवार्पण) मस्तु|| ॐतत्सत् इति तृतीयप्रहरपूजा......
ॐस्वस्ति || शास्त्री पुलकित || शेष पुनः
No comments:
Post a Comment