।। श्रीगणेशायनमः|| श्रीगुरुभ्योनमः||श्रीह्रीं दुं दुर्गायै नमः|| हरिःॐ विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे|| आत्मज्ञान निमित्ताय नमः सोमार्धधारिणे|| ॐनमो भगवते रुद्राय||पौलस्त्यगोत्रोत्पन्नः शास्त्री पुलकितशर्मणा स्वोधृतापद्धत्यनुसारेण- #अथ_शिवरात्रौ_प्रहरपूजा_प्रयोगः- शिवरात्रौ प्रातः स्नात्वा शुद्धवस्त्रोऽपवस्त्रे परिधाप्य संध्यावंदनादि समाप्य नान्दीश्राद्ध सहित लिंगतोभद्रमण्डल पूजोपहाराणि समाहृत्य (स्वगृहे) वा शिवालये गत्वा,गणपतिक्षेत्रपालं च नमस्कृत्य, शिवालयबहिः आसने चोपविश्य वेदवेदाङ्गपारगाद्विजान् नमस्कृत्य,विप्राऽऽशिषो गृहित्वा, बद्धशिखः वैदिकं वा स्मार्तं आचम्य प्राणानायम्य, शांतिपाठपठन पुरस्सरं विघ्नेशं गुर्वादिन् नमस्कृत्य, सुमुखश्चेत्यादि श्लोकान् पठित्वा,विश्वेशं माधवं ढुंढिं दण्डपाणिं च भैरवम्| वंदे काशीं गुहां गङ्गां भवानिमणिकर्णिकाम्|| एतत् कर्म प्रधानदेवता साङ्गाय सपरिवाराय साम्बसदाशिवमहारुद्राय नमःॐजज्जाग्रतो० स्वल्पोदकेन आयत उपकल्पित शिवपूजनोपहाराणां पवित्रताऽस्तु|द्रव्य श्रद्धा संपदस्तु||
संकल्पः- देशकालौ संकीर्त्य~श्री(अमुक महादेव) महारुद्र प्रसाद द्वारेण दीर्घायुः सुपुत्र सन्तति प्राप्तिद्वारा एतत्जन्म कृत जन्मातरार्जित सकलकल्मष निवृत्यर्थं चित्तशुद्धिद्वारा ज्ञानप्राप्तिवत् आत्मसाक्षात्कारता भवती इति न्यायात् चित्त शोधक धर्म साधन द्वारा आत्मज्ञान प्रकाशात्स्वरुप संसिद्ध्यै सदाशिव स्वरुप श्रीमत्कर्पूर्गौरवृषभवाहन गौरीदेहार्धधारी सत्चिदानन्द मूर्ति(अन्तर्यामि परमात्मा अमुक महादेव) प्रेरणया श्री साम्बसदाशिव(अमुक महादेव) प्रीत्यर्थं यामपूजनं च द्वितीयेह्नौ शिवरात्रीव्रत प्रहरपूजाङ्गत्वेन हवनं च करिष्ये…
तदङ्गत्वेन गणपतिपूजनं मातृकापूजनं नान्दीश्राद्धं आचार्य ऋत्विज दुर्गासप्तशती पाठकवरणं स्वस्तिपुण्याहवाचनं(कर्मांगदेवता महारुद्रः) च करिष्ये(शक्तिहिना महेशानी शिवप्रेतत्व माप्नुयात्||शक्ति संयोगमात्रेण कर्मकर्ता सदाशिव||तंत्रान्तरे)
गणपतिपूजनं मातृकापूजनं च समाप्य वैश्वदेवसंकल्पं कृत्वा तद् द्रव्यंसतंडुलघृतं ब्राह्मणाय समर्प्य ॐस्वस्ति इति परस्परं वदित्वा,नान्दीश्राद्धं समाप्य,आयुष्यमंत्रजपं कृत्वा,आचार्यादिन् वृत्वा- वृतानां ब्राह्मणानां चरणक्षालनं पादार्घ्यं च पादार्चनं समाप्य ललाटे गंधं,अक्षतांश्च,यथोपस्करसहितां दक्षिणां दत्वा संतोष्य, प्रसन्नमनसः प्रार्थयेत्- अस्या प्रहरपूजाया भवन्तोभ्यर्चिता मया| सुप्रन्नैः प्रकर्तव्यं यजनं विधिपूर्वकम्|| ब्राह्मणा:~विधि पूर्वकं करिष्यामः इति प्रतिवचनम्" स्वस्तिपुण्याहवाचनं कुर्यात्.
दिग्रक्षणं पञ्चगव्यकरणं प्रोक्षणं च समाप्य, देवाऽयान्तु इत्यादि भूमिपूजनान्तकर्मं समाप्य,
सशिखरध्वजा सहित शिवालय प्रासादपुरुषपूजनम्- ॐसहस्रशीरेखा०ॐआजिघ्र० ॐनमःशम्भवाय च० एभिर्मंत्रैः ॐभूर्भुवःस्वः सशिखर ध्वजा सहित शिवालय प्रासादपुरुषाय नमः इति गंधाक्षतपुष्पैः सम्पूज्य,
नमस्कारः- ॐह्रीं सर्वदेव मया चिन्त्य सर्वरत्नोज्वलाकृते|| यावच्चन्द्रश्च सूर्यश्च तावदत्र स्थिरोभव||
शिवालयस्थ द्वारपूजनम्- फड् इति द्वारं प्रोक्ष्य,गंधाक्षतैर्दक्षिणशाखायां- गं गणपतये नमः दुं दुर्गायै नमः वामशाखायां- बं बटुकाय नमः क्षें क्षेत्रपालाय नमः द्वारोपरि- सं सरस्वत्यै नमः देहल्यां-ॐअस्त्राय फट् इति सम्पूज्य, द्वारपालानां पूजनम्- पूर्वादितः द्वौ द्वौ पूजयेत्- असितांग भैरवाय नमः रुरुभैरवाय नमः दक्षिणद्वारि- चंड भैरवाय नमः क्रोध भैरवाय नमः पश्चिमद्वारे- उन्मत्तभैरवाय नमः कपालभैरवाय नमः उत्तरद्वारे- भीषणभैरवाय नमः संहारभैरवाय नमः दिक्पालानां पूजनम् पूर्वादितश्च पूर्वेशानमध्येऽन्ते नैर्ऋत्य वरुणयोर्मध्येषु- इन्द्राय नमः अग्नये नमः यमाय नमः निर्ऋतये नमः वरुणाय नमः वायवे नमः कुबेराय नमः ईशानाय नमः ब्रह्मणे नमः अनन्ताय नमः इति सम्पूज्य. देवाऽआयान्तु इत्यादिना भूमिपूजनान्तं समाप्य- ततो दक्षिणपादपुरःसरं शिवालये प्रविश्य, सामान्य विधिना भस्मधारण रुद्राक्षमाला धारणं च कृत्वा हरिहरात्मक द्वादशलिङ्गतो भद्रमण्डले स्तान्देवानावाह्य यथा शक्तिः सम्पूज्य...पूर्णपात्रान्त विधानेन कलशं संस्थाप्य तस्मिन् सतीर्थवरुणं च सम्पूज्य- कलशस्य मुखे विष्णोरित्यादिना सम्प्रार्थ्य. कलशोपरिस्थ पूर्णपात्रे रुद्रपीठदेवतानां पूजनं समाप्य. पूर्णपात्रे पञ्चवक्त्र शिवमूर्तिं अग्न्युत्तारणं च प्राणप्रतिष्ठां कृत्वा संस्थाप्य वा( बाणलिंगं संस्थाप्य" शालग्रामे बाणलिंगे नाऽवाहन विसर्जनम्") षोडशोपचारैः संपूज्य.शिवालये स्थापित देवतानां पूजनम्-
ॐगणानांत्वा० इति गणपतिं गन्धपुष्प धूपदीपनैवेद्यादिभिः सम्पूज्य, ॐअस्मेरुद्रा० इति हनुमन्तं गन्धपुष्पधूप दीप नैवेद्यादिभिः सम्पूज्य,ॐव्वय गूं सोम० इति कुबेरं गन्धपुष्प धूप दीप नैवेद्यादिभिः सम्पूज्य.(ॐ भद्रङ्कर्ण्णेभिः इति वीरभद्रं… ॐजद् क्रन्दः० इति स्कन्दं… ॐअसवे स्वाहा० इति किर्तीमुखं पञ्चोपचारैः सम्पूज्य.) ॐआशुःशिशानो० इति वृषभं पञ्चोपचारैः सम्पूज्य. प्रार्थयेत्- कंठालङ्कार घंटा घण घण रणिता ध्मातरोदः कटाहः, कंठे कालाधिरोहो चितघनसुभगं भावुकः स्निग्ध पृष्ठः| साक्षात् धर्मो वपुष्मान् धवल ककुद्निर्धूत कैलास कूटः, कूटस्थो वः ककुद्मान् निबिड तरतमः स्तोम तृण्या वितृण्यात्|| कुर्म्मपूजनम्- ॐजस्य कुर्म्मो० इति कुर्म्मं पञ्चोपचारैः सम्पूज्य, प्रार्थयेत्- पुष्पिताग्रा छंदः* निरवधि च निराश्रयं च यस्य, स्थितमनि वर्तित कौतुक प्रपञ्चम्| प्रथम इह भवान्स कुर्म्ममूर्तिः, जयति चतुर्दशलोक वल्लिकन्दः|| गौरीपूजनम्- ध्यानम्- पृथ्विछंदः* मुखे ते ताम्बूलं नयनयुगले कज्जलकलाः, ललाटे काश्मीरं गले विलसति मौक्तिक लता| स्फूरत्काञ्चीशाटी पृथुकटीतटे हाटकमयीं भजाम स्त्वां गौरीं नगपति किशोरीमविरतम् || पाद्यादिभिः स्नान्तं वस्त्रान्तरैः सम्पूज्य ॐआयङ्गौः० इति गन्धम् ॐव्वाजोनोऽ० इत्यक्षातान् ॐजातेरुद्रशिवा० इति सौभाग्यसूत्रालंकरणानि, ॐजामेधां देव० पुष्पपुष्पमालिकां च, ॐश्रीश्चते० इति बिल्वपत्रं, धूपदीपनैवेद्यादिभिः सम्पूज्य. प्रार्थना- सर्व मङ्गल माङ्गल्ये० मधु कैटभ विद्रावी विधात्री वरदे नमः| रूपन्देहि०||
वासुकीनागपूजनम्- ॐनमोऽस्तु सर्प्पेब्भ्यो० शिवं- शान्ताकारं शिखरशयनं.... षोडषोपचारैः सम्पूज्य. सार्धप्रदक्षिणां कुर्यात्
शेष प्रहरपूजां यामिन्याप्रहरप्रारंभपूर्वे कुर्यात्.
यामिन्या प्रहरपूर्वे शिवालये शुभासने उपविश्य आचम्य प्राणानायम्य शिखांबद्ध्वा शांतिपाठपठनपूर्वकं गणाधिपं नमस्कृत्य विश्वेशं माधवं ढुंढिं० वागर्थाविव संपृक्तौ ०एतत्कर्म प्रधानदेवता साम्बसदाशिवमहारुद्राय नमः अर्चनीयोपहाराणां सम्प्रोक्ष्य ॐव्व्रतेन दिक्षा माप्नोति० शं च मे मयश्च मे० संकल्पः- पूर्वोच्चारित संकल्पानुसारेण देशकालाद्यनुसरतः शुभ पुण्य तिथौ- श्री(अमुक महादेव)स्य प्रेरणया साम्बसदाशिव महारुद्र प्रीत्यर्थं प्रतियामपूजनं करिष्ये....
ॐगणानांत्वा० महागणपतये नमः सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि.इत्यादि शिवालयस्थ स्थापित देवतानां स्वस्व मंत्रेण सम्पूज्य.
भस्मोद्धूलनप्रयोगः- विनियोग- सद्योजातमित्यस्य सद्योजात ऋषिः त्रिष्टुप् छंदः ब्रह्मा देवता,वामदेवायेत्यस्य वामदेव ऋषिः जगती छंदः विष्णुर्देवता, अघोरेत्यस्य अघोर ऋषिः अनुष्टुप् छंदः रुद्रो देवता,तत्पुरुषायेति तत्पुरुष ऋषिः गायत्री छंदः रुद्रो देवता, ईशानेत्यस्य ईशान ऋषिः अनुष्टुप् छंदः रुद्रो देवता सर्वेषां भस्मपरिग्रहणे विनियोगः- वामहस्ते प्रतिमंत्रेण भस्मं गृह्णीयात् ॐसद्योजातं प्रपद्यामि० ॐवामदेवाय नमो० ॐअघोरेभ्योऽथ० ॐतत्पुरुषाय वि० ॐईशानः सर्वविद्याना० दक्षिण हस्तेनाच्छाद्य अग्निरित्यादि भस्माभिमन्त्राणां पिप्पलाद ऋषिः गायत्री छंदः कालाग्निरुद्रो देवता भस्माभिमन्त्रणे विनियोगः- ॐअग्निरितिभस्म०तस्माद्व्रतमेतत्पाशुपतं यद् भस्मनाङ्गानि संस्पृशेत्तस्माद्व्रतमेतत् पाशुपतं पशुपाश विमोक्षाय इति मंत्रेण त्रिवारमभिमन्त्र्य" आपोज्योतिरित्यस्य प्रजापति र्ऋषिः यजुश्छंदः ब्रह्माग्निवायुसूर्याश्च देवताः भस्मन्यपासेचने विनियोगः- (जलाधिपं विष्णुं अभिध्यायन्भस्मन्यपां आसेचनम्) ॐआपोज्योतिरसामृतं ब्रह्म भूर्भुवःस्वरोम्" शिवपञ्चाक्षरीमंत्रस्य वामदेव ऋषिः पंक्ति श्छंदः ईशानो देवता भस्म सम्मर्दने विनियोगः-(ॐ)नमःशिवाय(ब्राह्मणेतराणां निरोंकारमन्त्रेण)" ईशानः सर्व विद्यानामिति शिरसि- तत्पुरुषायेति मुखे- अघोरेभ्योऽथ इति हृदये- वामदेवायेति गुह्ये सद्योजातं प्रपद्यामि इति पादयोः सम्पूर्णमंत्रै श्च प्रणवेन सर्वाँगे{तारो(ॐ)द्विजानां=उपनयन संस्कार सम्पन्न ब्राह्मण-क्षत्रिय-वैश्य" वसुधा(लं) च राज्ञां=अनुपवीत-क्षत्रिय" तथा विशां=अनुपवीत-वैश्य (श्रीं) खलु बीजमेव|| शूद्रस्य माया(ह्रीं) युवतेः=ऋतुधर्मप्राप्तायुवती अनंग(क्लीं) पञ्च प्रकारा प्रणवा भवन्ति|| द्विजानां(उपनयन सम्पन्न ब्रा०क्ष०वै०) क्रमेण ॐ, लं ,श्रीं प्रणवाभवन्ति परन्तु अनुपवीतीनां सर्वेषामेव वर्णानां ह्रीं,ऋतुधर्मप्राप्तपूर्वे कन्याभिश्च" ह्रीं सर्वसाधारणसम्मतं प्रणवम्" स्त्रीणां क्लीं इति.}
मानस्तोकेत्यस्य कुत्स ऋषिः जगती छंदः एकोरुद्रो देवता भस्मोद्धरणे विनियोगः- पुनर्वाम हस्ते भस्ममादाय- ॐमानस्तोके० ध्यानम्-(त्रिपुण्ड्रे २७देवताः) यास्या प्रथमा रेखा सा गार्हपत्य(१)श्चकारो(अ२)रजो(३)भूर्लोक(४)श्चात्मा(५)क्रियाशक्तिः(६) ऋग्वेदः(७) प्रातः सवनं(८)महादेवो देवता(९) यास्या द्वितीया रेखा सा दक्षिणाग्नि(१०)रुकारः(उ११) सत्व(१२)मन्तरिक्ष(१३)मन्तरात्मा(१४)चेच्छा शक्तिः (१५) यजुर्वेदो(१६)माध्यंदिनं सवनं(१७) महेश्वरो देवता(१८) यास्या तृतीया रेखा सा आहवनीयो(२०)मकार(म२१)स्तमो(२२)द्यौः(२३) परमात्मा(२४) ज्ञानशक्तिः(२५) सामवेद(२६)स्तृतीय सवनं शिवो देवता(२७) इति ध्यात्वा" त्र्यंबकमित्यस्य वसिष्ठ ऋषिः अनुष्टुप् छंदः त्र्यंबकोरुद्रो देवता त्र्यायुखमित्यस्य नारायण ऋषिः उष्णिक् छंदः अग्निर्देवता भस्मना त्रिपुण्ड्र करणे विनियोगः- ॐत्र्यम्बकं०ॐत्र्यायुखं०इति मन्त्राभ्यां ललाटे ग्रीवायां दक्षिणांसे वामांसे च हृदये त्रैपुण्ड्रकानि कृत्वा" आपः पुनन्तु इत्यस्य नारायण ऋषिः गायत्री छंदः आपो देवता भस्मोदकपाने विनियोगः- भस्मनालिप्तदक्षिण हस्ते जलमादाय ॐ आपः पुनन्तु पृथवीं० इति तज्जलं प्राश्य एवमेव द्विवारं तूष्णीं आचम्य हस्तं प्रक्षाल्य ० भस्मस्तवनम्- भूति र्भूतिकरी पवित्र जननी पापौघ विध्वंसिनी सर्वानन्दकरी सदाशिवकरी सर्वार्थ सम्पत्करी|| रक्षो भूत पिशाच राक्षस महाक्षोभैक संत्रासिनी तेजो राज्य विशेष मोक्ष करिणी भूति सदा धार्यताम्|| एतानि तानि शिवमंत्र पवित्रतानि भस्मानि काम दहनाङ्ग विलेपनानि|| त्रैपुण्ड्रकानि रचितानि ललाट पट्टे लुम्पन्ति देव लिखितानि दुरक्षराणि||
रुद्राक्षमाला धारण प्रयोगः- (यज्ञोपवीतरहितानां केवल ध्यानमंत्रेण मूलमंत्रेण च प्रतिष्ठित रुद्राक्षाः धारण कर्तव्यम्) ध्यानम्(सर्वेषां एव वर्णानाम्) विविक्त देशे च सुखासनस्थः शुचिः समग्रीव शिरः शरीरः| अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य|| (केवलं यज्ञोपवीतरहितानां ) हृत्पुण्डरीकं विरुजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम्| तथादि मध्यान्त विहीन मेकं विभुं चिदानन्द मरुपमद्भुतम्|| उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम्|| (जाबालोपनिषदि) मूलमंत्रं विन्यसेत्- मुखभेदे मन्त्राः- स्कन्दपुराणोक्ताः*१ ॐऐंनमः २ ॐश्रीं नमः ३ ॐध्रुं ध्रूं नमः ४ ॐह्रीं हूं नमः ५ ॐश्रीं नमः ६ ॐह्रीं नमः ७ ॐह्रीं नमः८ॐकं वं नमः ९ॐह्रीं नमः १० ॐह्रीं नमः ११ॐ श्रीं नमः१२ ॐह्रां ह्रीं नमः १३ ॐक्ष्यैं स्तौं नमः १४ ॐडं मां नमः" ॐमनोजुति० इति प्रतिष्ठाप्य" त्र्यम्बक मन्त्रेण प्रतिष्ठित रुद्राक्षान्धारयेत्(जपस्थानार्चन स्थानं माला पुस्तक दर्शनम्|| स्वभक्तेषु महेशानि दर्शनं नैव कारयेत्||मं०महा०) अनेन भस्मोद्धुलन सहितं रुद्राक्षमाला धारण कृतेन परमेश्वरः प्रीयताम्.
भूशुद्धिः* शिवपञ्चाक्षरी मन्त्रस्य वामदेव ऋषिः पङ्क्ति श्छंदः पञ्चवक्त्र ईशानो देवता आचमने प्राणायामे विनियोगः(ॐ)नमः शिवाय(एतद् एव निरोंकारं कुर्यात् क्षत्रिय वैश्ययो:) इति मन्त्रेण त्रिराचम्य अनेन मन्त्रेण च त्रिः प्राणानायम्य. नमस्कारः- दक्षिणे सं सरस्वत्यै नमः, शंख निधये नमः, वामें लं लक्ष्म्यै नमः, पद्मनिधये नमः, पृथ्वीरितिमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छंदः कुर्म्मो देवता आसने विनियोगः- हस्ताभ्यां भूमिं स्पृशन् ॐपृथ्वित्वया० आसने पुष्पं दत्वा विश्वशक्त्यै नमः महाशक्त्यै नमः ॐकुर्म्मासनायनमः ॐअनन्तासनायनमः ॐविमलासनायनमः मध्ये परमसुखासनाय नमः हृदये हस्तं दत्वा- आत्मासनाय नमः, मानस्तोकेत्यस्य कुत्स ऋषिः जगती छंदः एकोरुद्रो देवता शिखाबन्धने विनियोगः- ॐमानस्तोके० चिद्रूपिणि महामाये दिव्यतेजः समन्विते| तिष्ठ देवि शिखामध्ये तेजोवृद्धिं कुरुष्व मे|| दिग्रक्षणम्- ॐअपःसर्पन्तु वामदेव ऋषिः अनुष्टुप छंदः भूतानि देवता दिग्रक्षणे विनियोगः- ॐअपः सर्पन्तु ये० अपक्क्रामन्तु० वामपाद पार्ष्णिना त्रिवारं भूमिं प्रहृत्य- तीक्ष्णदंष्ट्र महाकाय० तर्जन्यङ्गुष्ठास्फोटनेन सर्वत्र दिग्बंध कार्यः- नमः शार्ङाय सशराय सुदर्शनाय अस्त्रराजाय हुं फट् स्वाहा. नमस्कारः- स्वदक्षिणे- गुरुभ्यो नमः परमगुरुभ्यो नमः परमेष्ठी गुरुभ्यो नमः परात्परगुरुभ्यो नमः सिद्धौघेभ्यो गुरुभ्यो नमः दिव्यौघेभ्यो गुरुभ्यो नमः मानवौघेभ्यो गुरुभ्यो नमः श्रीं ह्रीं क्लीं निजगुरवे नमः आचार्येभ्योनमः सिद्धेभ्यो नमः वामे- गं गणपतये नमः दुं दुर्गायै नमः क्षें क्षेत्रेशाय नमः बं बटुकाय नमः क्षं क्षेत्रपालाय नमः पुरतः साङ्गाय सपरिवाराय साम्बसदाशिवाय (अमुक महादेवाय) नमः भूरसित्यस्य प्रजापति र्ऋषिः पङ्क्ति श्छंदः मातृका देवता भू शुद्धौ विनियोगः- भूमौ हस्तं दत्वा ॐभूरसि भूमिरस्य० दक्षिणे भैरवनमस्कारः- जोभूताना कौण्डिन्य ऋषिः अनुष्टुप् नारायणो देवता भैरवनमस्कारे विनियोगः- ॐजो भूताना मधिपतिर्० भूशुद्धिकर्मणा कृतेन साम्बसदाशिव महारुद्रः प्रीयताम्.
भूतशुद्धिः- ज्योतिर्मंत्रं महेशानि अष्टोत्तरशतं जपेत्| एतत् विज्ञान मात्रेण भूतशुद्धिर्विधियते|| हौं इति ज्योतिर्बीजं अष्टोत्तरशतं नासाग्रध्यानरतो(शाभवी मुद्रया) जपेत् . इति संक्षेपेण भूतशिद्धिः साम्बसदाशिव महारुद्रः प्रीयताम्.
अन्तर्मातृका बहिर्मातृका न्यासौ कृत्वा- नमःशिवायेति वामदेव ऋषिः पङ्क्ति श्छंदः ईशानो देवता ॐबीजम् नमः शक्तिः पूजनादौ न्यासे विनियोगः-
ॐवामदेवर्षये नमः शिरसि,
ॐ पङ्क्ति श्छंदसे नमः मुखे,
ॐ ईशानो देवतायै नमः हृदये,
प्रणवेति बीजाय नमो गुह्ये,
ॐनमः शक्तये नमः पादयोः
प्रणवाय नमो हृदयाय नमः, नं नमो शिरसे स्वाहा, मों नमः शिखायै वषट्, शिं नमो कवचाय हुम् , वां नमो नेत्रत्रयाय वौषट्,
यं नमो अस्त्राय फट्,
एवमेव अंगुष्ठादि न्यासान् कृत्वा, ॐसद्योजातं प्रपद्यामि० हृदयाय नमः, ॐवामदेवाय नमो० शिरसे स्वाहा, ॐअघोरेभ्योऽथ० शिखायै वषट्. ॐतत्पुरुषाय वि० कवचाय हुं. ॐ ईशानः सर्वविद्याना० अस्त्राय फट्. एकादश न्यासान्तरे प्रथम द्वितीय तृतीय न्यासान्समाप्य. साम्बसदाशिव(अमुक महादेवस्य) प्रथमयाम पूजां करिष्ये.
================
प्रहरपूजायां विशेष पूजासामग्रीः*
प्रहरपूजायां प्रथम प्रहरे विशेष-
अक्षत+ तिल, द्वितीय- यव + अक्षत, तृतीय- गोधूम+ अक्षत, चतुर्थ- सप्तधान्य
अक्षतशब्देन न तु छिन्न भिन्नाक्षताः"
विशेष पुष्प- प्रथम प्रहरे* शतपत्र(गुलाब) करवीर(करेण).द्वितीय प्रहरे- कमल, तृतीय प्रहरे अर्क(आँक़ के पुष्प) चतुर्थ प्रहरे- जुई चम्पा शंखपुष्पी.
प्रति प्रहरेषु पञ्चवक्त्रपूजनेषु- पश्चिमवक्त्र* मनःशिल+ चन्दन+कर्पूरमिश्र घर्षित गन्धम्.
श्वेतऋतुकालोद्भव पुष्पाणि. गुग्गुलधूपबत्ती, पीष्टमय दीपे घृतदीपम्, पायस नैवेद्यम्,
उत्तरवक्त्रे- केसर+चन्दन+कर्पूरमिश्र घर्षित गन्धम्, तुलसीपत्राणि, शतपत्रपुष्पाणि, पञ्चसौगन्धिक धूपार्थं(चिनकबाला+ पूगीफलचूर्ण+ जातीफलचूर्ण(जायफळ)+ लवेंगचूर्ण+ कर्पूर सममात्रा) कोयले.धूपपात्र.भीमसेनी कर्पूर.
पीष्टमयदीपपात्रे घृतदीपम्, पक्वगोधूमान्न(गेहुं के आट़ेका हलुवा)
दक्षिणवक्त्रे- कृष्णागरु(कालाअगर)+ चन्दन+ कर्पूरमिश्र घर्षित गन्धम्. नीलोत्पल(सफेदकमल). करवीरपुष्प(सफेदकरेण), गुग्गुलधूपबत्ती,पीष्टमयदीपपात्रे घृतदीपम्, माषान्ननैवेद्य(उडी़दपाक या मूंग+उड़द मिश्रित वडे़)
पूर्वक्त्रे- हरिताल(सुनहरे वर्णकी)+ चन्दन+ कर्पूरमिश्र घर्षित गन्धम्, दुर्वांकुराणि,मंदारपुष्प(सफेद आँकके पुष्प) अन्य ऋतुकालोद्भव पुष्पाणि, गुग्गुलधूुबत्ती,पीष्टमयदीपपात्रे घृतदीपम्. गुड़मोदकान्,
उर्ध्ववक्त्रे-संस्कृता यज्ञीय भस्म+ चन्दन+कर्पूरमिश्र घर्षित गन्धम्,
बिल्वपत्राणि,कनकपुष्प(कांटा शेरी) अन्य ऋतुकालोद्भव पुष्पाणि,केसरचन्दनधूपार्थं(चन्दनकी धूपबत्ती को घीमें डाले हुए केसरसे अभिधारित करैं.) पीष्टमयदीपपात्रे घृतदीपम्, दध्योदन शर्करा नैवेद्य(भात+ पञ्चामृत) पञ्चामृत प्रकारः( एक बडा चम्मच शर्करा+ दो बडे चम्मच मधु(शहद)+ तीन बडे चम्मच घृत + चार बडे चम्मच गायका दहीं+ पाँच बडे चम्मच गोदूग्ध का मिश्रण कुछमात्रामें केसर और एलचीका चूर्ण.)
अधोवक्त्रे- रक्तचन्दन(रतांजली)+कर्पूरमिश्र घर्षित गन्धम्, अपामार्ग(ओंगेके पुष्प गुर्जरे* अघेडा या झंझेटा).कल्हार(सफेदकमल) बकुलपुष्प(बोरसली) सुगंधधूपार्थं(जातीफलचूर्ण+ टोपरेका छीन+ जटामांसी+ तगर+ गुगळ+ घृतमिश्र द्रव्यम्) कोयले, भीमसेनी कर्पूर. धूपपात्र.
षड्रसनैवेद्यार्थं(गुड़+ जीरक+ चींचक(ईमली)+ मीरच(मरीयां)+ हरिद्रा+ सैंधवलवण+ मिश्र आटेंकी पुरीयां घीमें बनाई हुई बडी़.)
प्रहरेषु पुरुषाहार सम्मतं नैवेद्यानि- प्रथम प्रहरे- क्षीरान्न(खीर).द्वितीय प्रहरे- माषपूपानि( उडी़द+ मूंग मिश्र करके) पूड़े. तृतीय प्रहरे- चणकान्न(मगस या मोहनथाल), चतुर्थ प्रहरे- गोधुमान्न(सुखडी या कंसार)
प्रहरे विशेषार्घ फलानि- प्रथम प्रहरे- बिल्वफलम्. द्वितीय प्रहरे- मातुलिंग(बीजौरा) तृतीय प्रहरे- दाडिम. चतुर्थ प्रहरे- कदलीफलानि.
====!====!!=====
दक्षिणभागे साधारस्य ताम्रपात्रस्य स्थापनं कृत्वा-अक्षतैः पूजयेत्- ॐजातवेदसे० दशकलात्मने अग्नये नमः, ॐसूर्ज्जरश्मि० द्वादशकलात्मने सूर्य्याय नमः, नमः शिवाय इत्यस्य वामदेव ऋषिः पङ्क्ति श्छंदः महादेवो देवता अर्घ पूरणे विनियोगः, ॐनमःशिवाय पात्रे तीर्थोदकमापूर्य, अक्षतैः पूजयेत्- ॐत्र्यम्बकं० षोडशकलात्मने चन्द्राय नमः, तस्मिन् गंधाक्षतपुष्पाणि प्रक्षिप्य, ॐनमः शिवाय इति अष्टवारं अभिमन्त्र्य, पूजासम्भारान् अनैनावार्घोदकेन प्रोक्षयेत्- ॐनमः शिवाय शिवार्चन कालेषु यानि यानिह साम्प्रतम्|| वस्तुनि सौरभाढ्यानि पवित्राणि भवन्तु वै|| किंचित् अर्घोदकबिन्दुं पूजार्थं गृहितकलशे निक्षिप्य." बाणलिंग मूर्तौ अग्न्युत्तारण पूर्वकं प्राणप्रतिष्ठापनम् च आवाहनम् (स्वभुवे रसलिंगे बाणलिंगे आत्मलिंगे वायुलिंगे वा ज्योतिर्लिंगे प्राणप्रतिष्ठा नैवम्) ध्यानम्- ध्यायेन्नित्यं महेशं० आसन,पाद्य,अर्घ्य. आचमन, मधुपर्क शुद्धाचमनम् च (केवल प्रथम यामे)स्नान,पञ्चामृतस्नान, गंधोदकस्नान,सुगंधीतैलस्नान, आमलकद्रवस्नान, कुशोदकस्नान,गर्भोदकस्नान, षडंगरुद्रेण वा पुराणोक्ते ब्रह्मशिलादसंवादे नमकचमकानुवाकेन अभिषेकः प्रथम प्रहरे ॐईशानायनमः इति गोदूग्धेन (प्रहरपूजायां लघुरुद्राभिषेकस्य आवश्यक्ता नैव केवलं प्रहरपूजा विशेषार्थो ज्ञेयः) ,शुद्धोदकस्नान,वस्त्र, उपवीत, अलंकार,अस्त्र शस्त्र आयुध, प्रथमप्रहरे ॐशिवायनमः इति गंधम् .प्रथमप्रहरोक्त तिलाक्षत धान्य,प्रहरोक्त शतपत्र करवीरपुष्प,पुष्पहार,बिल्वपत्राद्यैः पूजनं कृत्वा पञ्चवक्त्रपूजनम्( यथोक्त पूजाद्रव्यैः) गंधाक्षतैः अङ्गपूजा, देववामभागे शक्तिपूजा,गणपूजा एकादशरुद्रपूजा, द्वादशलिङ्गपूजा, १०८बिल्वपत्रैः अष्टोत्तरशतनाम मंत्राभिः सम्पूज्य, सौभाग्यद्रव्य, धूपनिवेदन विधिः- धूपपात्रं अर्घोदकेन संप्रोक्ष्य. अंगारान् रं इति संस्थाप्य, गुग्गुलं निक्षिपेत् ॐनमः शिवाय इति धूपं कृत्वा. गंधपुष्पाभ्यां नमः इति सम्पूज्य,घंटा पूजनम्- ह्रीं जगत् ध्वनि मंत्रमातः स्वाहा" घंटां वादयन् दक्षकरेण किंचिद् अर्घोदकमादाय वामतर्जन्या धधूपपात्रं स्पृष्ट्वा ॐ धूरसि० सांगाय सपरिवाराय(अमुक महादेवाय) साम्बसदाशिव महारुद्राय नमः धूपं समर्पयामि, देवस्य नाभौ धूपं दत्वा धूपपात्रं देववामभागे निधाय. तर्जन्यङ्गुष्ठयोगेन धूप मुद्रां प्रदर्श्य,
दीपनिवेदन विधिः- दीपपात्रं अर्घोदकेन अस्त्राय फट् इति प्रोक्ष्य. गोघृतेनापूर्य.पञ्चतंतुभिः वर्तिन्निक्षिप्य, ॐनमः शिवाय इति प्रज्वाल्य, नमः इति सम्पूज्य. ॐसुजातो० सांगाय सपरिवाराय(अमुक महादेवाय) साम्बसदाशिवाय महारुद्राय नमः इति वदन् मस्तकादि पादान्तं दीपं प्रदर्शयेत्.देव दक्षिणे दीपपात्रं निधाय, अर्घोदकमादाय साम्बसदाशिवाय (अमुक महादेवाय) नमः दीपं दर्शयामि, मध्यमाङ्गुष्ठ योगेन दीपमुद्रां प्रदर्श्य.
नैवेद्य निवेदन विधिः- देवस्याग्रे जलेन चतुरस्र मंडलं कृत्वा तस्योपरि भोजनपात्रं निधाय.पात्रे प्रथमप्रहरोक्त क्षीरान्न नैवेद्यं पूरयित्वा. अस्त्राय फट् इति अर्घोदकेन प्रोक्ष्य. मुकुलमुद्रारित्या सर्वतोदिशी चक्राकारं भ्रामयित्वा चक्रमुद्रां दर्शयन् नैवेद्यं संरक्ष्य. ॐनमः शिवाय इति मूलेन संवीक्ष्य,अधोमुख दक्षिण हस्तोपरि तादृशं वामहस्तं निधाय नैवेद्यमाच्छाद्य यं इति वायुबीजं षोडशवारं संजप्य वायुना तद्गत सम्भवित दोषान् संशोध्य. ततो दक्षिण करतले तत्पृष्ठ लग्न वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य रं इति वह्निबीजं षोडशवारं जप्त्वा तदुत्पन्नाग्निना तद्दोषं दग्ध्वा, ततो वाम करतले वं इति सुधाबीजं विचिन्त्य तत्पृष्ठ लग्न दक्षिण करतलं कृत्वा नैवेद्यं प्रदर्श्य वं इति षोडशवारं संजप्य.तदुत्थामृत धारयाप्लावितं विभाव्य ॐनमः शिवाय इति अर्घोदकेन प्रोक्ष्य. धेनुमुद्रया अमृतिकृत्य ॐनमःशिवाय" इति मूलेनाष्टवारमभिमन्त्र्य. गंधपुष्पाभ्या सम्पूज्य. देवस्योद्गत तेजं स्मृत्वा वामांगुष्ठेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिण करेण किंचिद् अर्घोदकं गृहित्वा ॐनमोऽस्तु रुद्रेभ्यो जे पृथ्व्यां० सांगाय सपरिवाराय (अमुक महादेवाय) साम्बसदाशिवाय नमः नैवेद्यं समर्पयामि. ॐअमृतोपस्तरणमसि स्वाहा-इति भूतले जलं क्षिप्त्वा. वाम हस्तेन नैवेद्य मुद्रां(अनामिकांगुष्ठ योगेन) प्रदर्श्य, सपुष्पकराभ्यां पात्रमुद्धरन् भगवतः(अमुक महादेवः) साम्बसदाशिवः निवेदितानि हवीषिं जुषाण. सर्वांगुलिभिः ग्रासमुद्रां प्रदर्श्य..
प्राणाद्यैः मुद्राभिः( कनिष्ठिकानामिकांगुष्ठ योगेन- ॐप्राणाय स्वाहा" तर्जन्यङ्गुष्ठमध्यमाभिः- ॐअपानाय स्वाहा" तर्जन्यंगुष्ठमध्यमानामिकाभिः- ॐव्यानाय स्वाहा" मध्यमानामिकांगुष्ठैः ॐउदानाय स्वाहा" सर्वांगुलिभिः ॐसमानाय स्वाहा") देवता भुंजानं ध्यात्वा जलं दद्यात्- (चषकपात्रे) ॐनमस्ते देवदेवेश सर्वतृप्तिकरं परम्| अखंडानंद सम्पूर्ण गृहाण जलमुत्तमम्|| भगवन् तज्जल प्राशितमिति भावयन् अंतःपटं कृत्वा ॐअन्नात् परिस्रुतो० ब्रह्मेशाद्यैः सरसभमितः सूपविष्टैः समन्तात् सिंजद्व्याल व्यजननिकरैः विज्यमानो वयस्यैः||० आचमन- शीतलं मधुरं स्वच्छं पावनं वासितं लघु|| मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो|| पुनः प्राणाद्यैः मुद्राभिः यथा शक्तिः ॐनमः शिवाय इति मूलं संजप्य जलेन- ॐअमृतापिधानमसि स्वाहा- उत्तरापोशानादिकं दद्यात्.
बाणलिङ्गे स्वयंभुते चन्द्रकान्ते हृदिस्थिते|| चान्द्रायण समं ज्ञेयं शंभोर्नैवेद्य भक्षणं||लिङ्गे स्वयंभुवे बाणे रत्नजे रसनिर्मिते|| सिद्ध प्रतिष्ठिते चैव न चंडाधिकृतिर्भवेत्|| यत्र चण्डाधिकारोस्ति तद्भोक्तव्यं न मानवैः|| चण्डाधिकारो नोयत्र भोक्तव्यं तत्र भक्तितः|| अनुपनीते न ग्राह्य || नि०सिंधौ०५१८पत्रे"
करोद्वर्तन,मुखवास,-अन्ते पुनराचमन, दक्षिणा, नीराजन,प्रदक्षिणा, मंत्रपुष्पाञ्जलिः, विशाषार्घ- प्रथम यामे "बिल्वफलेन" ॐजाःफलिनी० ॐनमःशिवाय शान्ताय सर्वपाप हराय च|| शिवरात्रौ मयादत्तं गृहाणार्घ्य मिदं प्रभो|| शिवरात्रि व्रतं देव पूजाजप परायणः करोमि विधिवत् दत्तं गृहाणार्घ्यं नमोऽस्तु ते||
प्रार्थना- द्रूतविलंबीत छंदः- न जनको जननी न च सोदरो न तनयो न च भूरि बलं कुलम्|| अवति कोऽपि न काल वशं गतं भजत रे मनुजा गिरिजा पतिम्||शार्दूल विक्रिडित छंद- किं वानेन धनेन वाजि करिभिः प्राप्तेन राज्येन किं किं वा पुत्र कलत्र मित्र पशुभिः देहेन गेहेन किं|| ज्ञात्वे तत्क्षण भङ्गुरं सपदिरे त्याज्यं मनो दूरतः स्वात्मार्थं गुरु वाक्यतो भज भज श्री पार्वती वल्लभम्|| आयु- र्नश्यति पश्यतां प्रतिदिनं यातिक्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसा कालो जगद्भक्षकः|| लक्ष्मीस्तोय तरङ्ग भंग चपला विद्युच्चलं जीवनं तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना|| ॐनमः शिवाय इति अष्टोत्तरशतं वा अष्टाविंशतिवारं जप्त्वा अर्घ्योदकमादाय ॐ गुह्याति गुह्य० तज्जलं देवदक्षिणकरं स्मृत्वा दद्यात्"
ॐएषते रुद्र० इति इषु योनि त्रिशूल पद्म कालकर्णिक धेनुमुद्रा इति षष्ठमुद्राः प्रदर्शयेत्"
इमारुद्रायेति कुत्स ऋषिः जगती छंदः एकोरुद्रो देवता पूजा निवेदने विनियोगः- अर्घोदकेन* यथा ज्ञानेन यथा मिलितोपचारद्रव्यैः शिवरात्रौ प्रथमयाम पूजन कर्मणा कृतेन भगवान्परमात्मा सपरिवारः(अमुक महादेव) साम्ब सदाशिवः प्रीयताम् " द्रापे इत्यस्य परमेष्ठी ऋषिः उपरिष्ठाद् बृहती छंदः एकोरुद्रो देवता अष्टांग प्रणामे विनियोगः- उरसा शिरसा दृष्ट्या मनसा वचसा तथा| पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग उच्यते|| ततो पूर्व स्थापित अर्घ्यपात्र मुत्थाप्य ॐनमः शिवाय" साधु वा ऽसाधु वा कर्म यद्यदाचरितं मया|| तत्सर्वं कृपया शंभो गृहाणाराधनं मम|| इति शिवोपरि भ्रामयित्वा श्री(अमुक महादेवाय) साम्बसदाशिवाय पुनरर्घ्यं समर्पयामि इति देवस्य दक्षकरे समर्प्य..
प्रदोष स्तोत्रेण स्तुवीत- वसन्त तिलका छंदः- सत्यं ब्रवीमि परलोकहितं ब्रवीमि, सारं ब्रवीम्युपनिषद् हृदयं ब्रवीमि,संसार मुल्बण मसार मवाप्य जन्तोः सारोऽय मीश्वर पदाम्बुरुहस्य सेवा||१|| ये नार्चयन्ति गिरिशं समये प्रदोषे, ये नार्चितं शिवमपि प्रणमन्ति चान्ये| एतत्कथां श्रृतिपुटैर्न पिबन्ति मूढा स्ते जन्म जन्मसु भवन्ति नरा दरिद्राः||२|| ये वै प्रदोष समये परमेश्वरस्य कुर्वन्त्य नन्य मनसाऽङ्घ्रि सरोज पूजाम्|| नित्यं प्रवृद्ध धन धान्य कलत्र पुत्र सौभाग्य सम्पदधिकास्त इहैव लोके||३|| कैलास शैल भुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचित रत्नपीठे|| नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोष समये नु भजन्ति सर्वे||४|| शार्दूलविक्रिडितम्- वाग्देवी धृत वल्लकी शतमखो वेणुं दधत्पद्मज स्तालो न्निद्रकरी रमा भगवती गेय प्रयोगान्विता|| विष्णुः सान्द्र मृदङ्ग वादनपटु- र्देवाःसमन्तात्स्थिताः सेवन्तेतमनु प्रदोष समये देवं मृडानी पतिम्||५|| उपजाती- गन्धर्व यक्ष पतगो रग सिद्घ साध्य विद्याधरा मरवरा- प्सरसां गणांश्च || येऽन्ये त्रिलोक निलयाः सहभूतवर्गाः प्राप्ते प्रदोष समये हरपार्श्व संस्थाः||६|| अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ते हरिपद्मजाद्याः|| तस्मिन्महेशे विधि नेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः||७||अनुष्टुप्- एष ते तनयः पूर्व जन्मनि ब्राह्मणोत्तमः|| प्रतिग्रहैर्वयो निन्ये नदानाद्यैः सुकर्मभिः||८|| अतो दारिद्र्य मापन्नः पुत्रस्ते द्विज भामिनि|| तद्दोष परिहारार्थं शरणं यातु शंकरम्|| हस्ते पुनर्अर्घ्योदकं गृहित्वा- ॐइतःपूर्वं प्राण बुद्धि देह धर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्कृतं यत्स्मृतं यदुक्तं तत्सर्वं ब्रह्मार्पण मस्तु मां मदीयं सकलं श्री(अमुक महादेव) साम्बसदाशिवार्पण मस्तु|| ॐतत्सत् इति प्रथम प्रहर पूजा......
द्वितीययाम पूजा -
https://m.facebook.com/story.php?story_fbid=335847463476559&id=100011539249014
तृतीययाम पूजा -
https://m.facebook.com/story.php?story_fbid=335849703476335&id=100011539249014
चतुर्थयाम पूजा - द्वितीयेह्नौ होमक्रम सहिता
https://m.facebook.com/story.php?story_fbid=335850523476253&id=100011539249014
ॐस्वस्ति || शास्त्री पुलकित उमरेठ || शेष पुनः
No comments:
Post a Comment