Wednesday, 2 May 2018

पुत्र व पुत्री पर विचार

*प्रश्न:* - पुंनामकात् नरकात्  यः त्रायते सःपुत्रः|
पुंनामकात् नरकात् या त्रायते सा पुत्री
|

शास्त्रानुसार दौनों का अर्थ समान एवं एक ही है
फिर लोक मैं असमानता क्यों होती है ?

*उत्तर:* - शब्दानुसारेण *प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणम्* -  (प्रातिपदिकस्य ग्रहणं यत्र क्रियते तत्र तस्य प्रातिपदिकस्य लिङ्गबोधकप्रत्ययेन सह अपि ग्रहणं भवति ।) इत्युक्ते, पुत्रशब्दस्य *अर्थवदधातुरप्रत्ययः प्रातिपदिकम्* इत्यनेन यदा प्रातिपदिकसंज्ञा भवति, तदा ङीष्-प्रत्ययसहितस्य  पुत्री -शब्दस्य अपि प्रातिपदिकसंज्ञा भवत्येव तेन पुत्री इति साधनं समीचीनमेव |

*प्रश्न:* - परं पुंनाम नरकात् त्राणं कथं शक्यते तस्या:?

*उत्तर:* - वर्णसंकरपुत्रस्य लुप्तपीण्डोकस्य न युज्यते अपि च पुत्र्या: नहि | कुलीनशुद्धवर्णवान् पुत्र एव शक्यते त्रातुं नरकात् नेतरे | यथा गीतायाम् - *संकरो नरकायैव कुलघ्नानां कुलस्य च| पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया||* इत्यत्रापि संकर इति पदेन पुम्विशिष्टस्येव ग्रहणं कृतम् अपि च तत्रोपनयने अनधिकृताया: पुत्र्या: कथं पीण्डोदकेष्वधिकार: |

प्रश्न: - तर्हि कथमुभयो: त्राणत्वं सिद्ध्यत्यनेन ?

उत्तर: - देवीपुराणे एकश्श्लोकः आगच्छति तस्य भावार्थोस्ति - यावत् पर्यन्तं पुत्री न जायते , तावन्न मातृऋणोन्मूलनं भवति ऋणमोचनाभावे त्राणाभावः कथं भवेत् तस्मात् अनने व्युत्पत्तिलभ्यो पुत्री शब्द: तदर्थे युज्यत एव | उच्यते किल  महाभाष्येsपि -
*न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिताः ।*
*ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्याः ।* एवमेवापरमप्यस्ति-
*व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति* (तत्रैव महाभाष्ये)

अत: पुत्रो वा पुत्री वेत्युभयो: त्राणत्वं सिद्धत्येव| नास्त्यर्थे भेद: अर्थाभेदे लिंगाभेदो न भवति खलु ! तत्र कस्य किं कर्म इति तु शास्त्रादेव बोधव्यम् |

पुत्रीपुत्रयोर्विषमता  स्थूलदेहवैशिष्ट्यभेदादेव वर्तते , न तु आत्मिकी  ।  पुण्यप्राबल्यवशात्   पुंस्त्वलाभो भवति  , अयं सिद्धान्तोsस्ति ।  तथाहि - जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं०, येsपि स्युः पापयोनयः स्त्रियो०  इत्यादयः श्लोकाः सन्ति  ।

कुमार श्रमणादिभ्य: 2/1/70 सूत्रेsस्मिन्नपि   अयं सिद्धान्तो वर्तते यत् कुमारशब्दःश्रमणादिभिस्सह समस्यते । येsत्र स्त्रीलिङ्गाः पठ्यन्ते - श्रमणा, प्रजिता, कुलटेत्येवमादयस्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते ,

ये तु पुल्लिङ्गा अध्यापकोsभिरूपकः पण्डितः इति तैरुभयथा । अत्रापि पुंस्त्ववैशिष्ट्यं तु स्पष्टमेव । :)

व्याख्या एवमेव करणीया , यत् पुण्यबलात् पुरुषस्य योनिप्राधान्यता भवति , परं ऋणभूमौ   वैशिष्ट्यता न भवति । तत्र स्त्रीपुरुषयोः समानोपादेयत्वमस्ति ।

कर्मणि विषमता तु प्रसिद्धा एव । योनिभेदाद्धर्मभेदो भवति  ।

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ।।

जय श्री राम

No comments:

Post a Comment

पूजा आदि में सिर नहीं ढंका चाहिए

शास्त्र प्रमाण:- उष्णीषो कञ्चुकी चात्र मुक्तकेशी गलावृतः ।  प्रलपन् कम्पनश्चैव तत्कृतो निष्फलो जपः ॥ अर्थात् - पगड़ी पहनकर, कुर्ता पहनकर, नग...