Wednesday, 13 March 2019

वृषलीकन्याया: कुम्भविवाहपद्धति:

वृषलीकन्याया: कुम्भविवाहपद्धति:--
(शास्त्रार्थ परिच्छेद --> अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी। दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला।। द्वादशे वृषली भवेत् -- अंतिमचरणे पाठभेद:।।गौरीं ददन्नाकलोके वैकुण्ठे रोहिणीं ददन्। कन्यां ददन् ब्रह्मलोके रौरवे तु रजस्वलाम्। कन्या द्वादशवर्षाणि याऽप्रदत्ता वसेद्गृहे। ब्रह्महत्या पितुस्तस्या:००।।पराशरमाधवीये ।।"अत ऊर्ध्वं रजस्वला"इत्यादेश्च दशवर्षादूर्ध्वं विवाहो निषिद्ध:।। पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥मनु:।।  पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता || सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ||हारीतः|| यस्तां समुद्वेत्कन्यां ब्राह्मणो ज्ञानदुर्बलः | अश्राद्धेयमपांक्तेयं तं विद्याद्वृषलीपतिम् ||देवल-अत्रि-कश्यपाः|| शुद्धिं च कारयित्वा तामुदहेदानृशस्यधीः || ऋतुसंख्या गाः शक्तः कन्यापिता यदि | दातव्यैकापि निःस्वेन दाने तस्या यथाविधि || तामुद्वहन्वरश्चापि कूष्माण्डैर्जुहुयाद्विजः ||आश्वालायन||)
विधान- अद्येत्यादि देशकालौ संकीर्तनान्ते अस्याः  कन्यायाः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म नामकरणनिष्क्रमणान्नप्राशनकर्णवेधचौलसंस्कारान्  जन्मकालिक नक्षत्रादियोगेन ग्रहयोगेन पुनर्भूदोषभावेन च विषाख्ययोगसंभववैधव्यारिष्टपरिहारार्थं तथा च कन्याकाले कन्यादान अकरणजनित प्रत्यवायपरिहारार्थं प्रायश्चित्त पूर्वकं श्रीपरमेश्वरप्रीत्यर्थं कुम्भविवाहाख्यं कर्म करिष्ये।
तत्रादौ गणपतिपूजनं स्वस्तिपुण्याहवाचनं(कर्मांगदेवता: ब्रह्मा,प्रजापतिर्धाता मृत्युः सविता,सविता,सविता,सविता,श्रोत्रं,केशिनश्च कुम्भस्वरूपीमहाविष्णुः प्रीयन्ताम्)मातृकापूजनं नान्दीश्राद्धं आचार्यादि ब्राह्मणवरणं च करिष्ये। "(शूद्रसमानामनुपनीतद्विज-स्त्री-कुंड-गोलक-संकरजात्यादीनामपिज्ञेया:।।शूद्रकमलाकरे।। वेदमंत्रस्वधास्वाहावषट्कारादिभिर्विना |व्यास।।)"-> यथाधिकारेण ब्राह्मणवरणान्तानि कर्माणि समाप्य।
(शास्त्रार्थ परिच्छेद -नवैताः कर्णवेधान्ता मन्त्रवर्जं स्त्रीयां क्रिया:। व्यास:।।मन्वपि - अमन्त्रका तु कार्येयं स्त्रीणामावृदशेषत:।। /// द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि। पञ्चैव मिश्रजातीनां संस्कारा: कुलधर्मत:।।शार्ङ्गधरः।।अष्टमांगल्यमाद्यः स्यान्नामकर्मतथैव च अन्नप्राशनचौले च विवाह: पंचम: स्मृत:।।श्रीस्थलेप्र०।।)" --> अथेदानीं कन्याया विवाहसमय एव सर्वे संस्काराः समानतन्त्रेण प्रायोऽनुष्ठीयन्त इति तदनुसारं यत् संस्कारप्रयोगक्रमो लिख्यते
कन्यापिता- अस्याः कन्याया गर्भाधानादि चौलान्तसंस्काराणां स्वस्वकाले अकरणजनितदोष परिहारार्थं अनादिष्टप्रायश्चित्तहोमं  ब्राह्मण द्वारा कारयिष्ये --> प्रादेशमात्रे स्थंडिले पञ्चभूसंस्कारपूर्वकं अग्निं संस्थाप्य , विट्नामाग्निमावाह्य ध्यात्वा ब्रह्मासनादिवर्जं ,आज्यं निरूप्य,अधिश्रित्य,पर्यग्निंकृत्वा,स्रुवं प्रतप्य,संमृज्य,उद्वास्य,उत्पूय,अवेक्ष्य,पर्युक्षणान्ते जुहुयात् - ॐभूू:स्वाहा-इदमग्नये न मम। ॐ भुवः स्वाहा-इदं वायवे न मम। ॐस्वः स्वाहा -इदं सूर्याय न मम। ॐ भूर्भुवः स्वः स्वाहा-इदं प्रजापतये न मम।।इत्येतान् प्रत्यनतितसंस्कारेषु पुनरावर्तनम्।।"(पुराणोक्ते ह्रीं प्रजापतये स्वाहा-इदं प्रजापतये न मम।। इति प्रत्यनतितसंस्कारमुद्दिश्य जुहुयात्)" ॐ त्वन्नोऽअग्ने ००इत्यादि उदुत्तमं०० इत्यन्तैः "(पुराणोक्ते - अग्निवरुणाभ्याम् द्विर्वारं, अग्नयेऽयसे,वरुणायसवित्रेविष्णवेविश्वेभ्योदेवेभ्योमरुद्भ्यःस्वर्क्केभ्यश्च, वरुणायादित्यादितये च)" अनेन ब्राह्मण द्वारा अनादिष्टप्रायश्चित्तहोमकृतेन अस्याः कन्याः गर्भाधानादि चौलान्तानां संस्काराणां कालातिक्रमदोषनिवृत्तिरस्तु।। "( शास्त्रार्थ परिच्छेद-- आरभ्याधानमाचौलात्कालातीते तु कर्मणाम्। व्याहृत्याज्यं सुसंस्कृत्य हुत्वा कर्म यथाक्रमम् ( ऐकैकसंस्कारमुद्दिश्य व्याहृतिभिः पृथक् पृथक्)। एतेष्वेकैकलोपेऽपि पादकृच्छ्रं समाचरेत्। चूडायामर्धकृच्छ्रं स्यादापदि त्वेवमीरितम्( आपत्ति-- मृताशौचादि आब्दिकशौचादि विषय)। अनापदि तु सर्वत्र द्विगुणं द्विगुणं चरेत्।।भगवानाश्वालयन।।)" कन्यापिता- अस्याः कन्यायाः गर्भाधानादि चौलान्तानां संस्काराणां मुख्यकालातिपत्तिदोष परिहारार्थं स्मृत्युक्त सार्द्धचतुष्टयकृच्छ्रप्रत्याम्नाय गोनिष्क्रयभूतं हिरण्यं रजतं वा दातुमहमुत्सृजे"इति संकल्प्य तदेवं दद्यात् अदाने प्रत्यवायी भवति। (ततोऽतीतानां गर्भाधानादिसीमन्तोन्नयनान्तसंस्काराणां प्रधानमन्त्रान् "रेतोमूत्रंव्विज००।।१९/७६।। हिरण्यगर्ब्भः०।।अद्भ्यःसम्भृेतः०।। ॐभूर्भुवःस्वरोम्।।" पठित्वा "अस्याः कन्यायाः बीजगर्भसमुद्भवैनोनिबर्हणपुरस्सरमायुः श्रीबलवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातकर्म,नामकरण,निष्क्रमणान्नप्राशनकर्णवेधचौलकर्माणि समानतन्त्रेण करिष्ये , इति संकल्प्य तूष्णीं कन्यां दृष्ट्वा मधुघृतमिश्रणं हिरण्येन चतुर्वारं तूष्णीं प्राशयित्वा मुखं प्रक्षाल्य " मार्कण्डेय महाभाग००" मंत्रं वामकर्णे पठेत्।। इति जातकर्म।। अस्याः कन्यायाः आयुःश्रीबलवृद्धिपूर्वकं व्यवहारसिद्धये नामकरण संस्कारं करिष्ये इति संकल्प्य - यथाचारं तण्डुलपूर्णे पात्रे सुवर्णशलाकया कुशेन वा "गणपति भक्ता" कुलदेवीभक्ता" ///मार्गशीर्षादि क्रमेण तत्तन्मासनाम -- लक्ष्मीः श्रीः कमला भद्रा सीता सत्या च रुक्मिणी। माधवी चैत्रिका भूमिस्तुलसी जाह्नवी तथा।।इति।। अवहकडाचक्रानुसारेण नामं, व्यवहारनामं च लेख्यम् -- "नामदेवताभ्यो नमः इत्यावाह्य पंचोपचारैः सम्पूज्य -- हे कन्ये त्वां गणपतिभक्तासि, त्वां कुलदेवीभक्तासि, त्वां मासनाम्ना अमुकासि, त्वां नक्षत्रनाम्ना अमुकासि, त्वां व्यवहारनाम्ना अमुकासि, सर्वान् ब्राह्मणान् अभिवादय 🙏 स्वस्ति भवन्तो ब्रुवन्तु " स्वस्ति"।। इति नामकरणम्।।
मंगलघोष घंटानादपुरस्सरं कुमार्या सह मंडपाद्बहिनिष्क्रम्य गंधाक्षतपुष्पैः "नमः सवित्रे जगदेकचक्षुषे००" इति सूर्यं पूजयेत् , नमस्कारः - चन्द्रार्कयोर्दिगीशानां दिशां च गगनस्य च। निक्षेपार्थमिमां दद्मि तेऽमुं रक्षन्तु सर्वदा।। अप्रमत्तां प्रमत्तां वा दिवा रात्रमथापि वा । रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः" इति सम्रार्थ्य।।इति निष्क्रमणम्।। सुवर्णादि पात्रे दधिमधुघृतजलैरोदनं समुदायुत्य हिरण्येन मातुरङ्कोपविष्टां कुमारीं "अन्नपूर्णायै नमः" इत्यनेन प्राशयित्वा,मुखं प्रक्षाल्य हस्तं क्षालयेत्।। इत्यन्नप्राशनम्।। लोहितसूच्या कण्टकेन वा कुमार्या वामदक्षिणकर्णौ क्रमेण "सवित्रे नमः" इति वेधयेत्।। (वा कर्णौ  कुडले स्पर्शनम्)।।इति कर्णवेधनम्।। एकस्मिन् पात्रे शीतास्वप्सूष्णाऽअप आसिंचति। सर्वं तूष्णीं कुर्यादित्येके।। चौलकर्मसांगतासिद्ध्यर्थं गां हिरण्यं रजतं वा दद्यात् इत्यन्ये ।।तद्यथाचारं कृत्वाशिषो वाचयेत्।। इति कन्या विवाहपूर्वे संस्काराः।।
(मिश्रजातीनां कन्यानाम् - एवमेवविधिना नामकरणान्नप्राशनचौलान्त संस्काराः गर्भाधानादि सीमन्तोन्नयनान्तवर्जं कार्याः)"
(कुम्भविवाहः)-- मुख्यदेवतायाः स्थापने कलशं निधाय तस्मिन् वरुणं आवाह्य , कलशस्यमुखे ००इति श्लोकान् पठित्वा , "(सतीर्थवरुणाय नमः)" इति पञ्चोपचारैः सम्पूज्य, स्वर्णमयविष्णुरूपाश्वत्थद्रुमप्रतिमाया ब्राह्मणद्वारा अग्न्युत्तारणं कृत्वा प्राणप्रतिष्ठां कुर्यात्। गर्भाधानादि संस्कारार्थं प्रणवान् जपित्वा -- "विष्णुस्वरूपाश्वत्थाय नमः" इत्यावाहनादि षोडशोपचारैः पूजनं कृत्वा प्रार्थयेत्। "वरुणाङ्गस्वरूपाय जीवनानां समाश्रय।पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु। देहि विष्णो वरं देहि कन्यां पालय दुःखतः।।" इति संप्रार्थ्य अनेन पूजनेन स्वर्णमयविष्णुस्वरूपाश्वत्थः प्रीयताम्।।
कन्यादाता- वृषलीकन्यादानदोष परिहारार्थं ऋतुसंख्या गा: वा एकापि गां तन्निष्क्रियभूतं उत्तममध्यमाधमानुमानेन निष्कं तदर्धं पादमेव वा अत्यशक्तौ अष्टमांशमानेन सुवर्णं रजतं वा तन्मूल्यं रुद्रदैवत्यं गंधपूष्पाद्यर्चितायाचार्याय तुभ्यमहं सम्प्रददे। स्वस्ति।। तेन मम च पितृणां कन्याकाले कन्यादान अकरणेन जनित प्रत्यवाय परिहारोस्तु। कन्यादानाधिकारोस्तु।।
आचार्य:- आचम्य प्राणानायम्य, देशकालौ संकीर्त्य_अनया ऋतुमत्या वृषलीत्वदोषयुक्तया सह करिष्यमाण कुंभविवाहेन जनिष्यमाण वृषलीपतित्व दोषनिवृत्तये कुष्माण्ड संज्ञकैर्मन्त्रैः प्रायश्चित्त होमं आज्येन करिष्ये... स्थंडिले पञ्चभूसंस्कार पूर्वकमग्निं संस्थाप्य | ब्रह्मासनादि(चरुवर्ज) आज्यभागान्तं कुशकण्डिकां समाप्य || वीट् नामाग्नये नमः इत्यग्निं सम्पूज्य | आज्येन- ॐ जद्देवा देवहेडनं देवासश्चकृेमा वयम् | अग्निर्मातस्मादेन सो विश्वान्मुञ्चन्त्व गूँ हसः स्वाहा - इदं अग्नये न मम || ॐ जदिदिवा जदि नक्तमेना गुं सि चकृेमा वयम् | वायुर्मातस्मादेनसो विश्वान् मुञ्चन्त्व गूँ हसः स्वाहा - इदं वायवे न मम ||  ॐ जदि जाग्रद्यदि स्वप्नऽएना गुँ सि चकृेमा वयम् | सूर्ज्जो मा तस्मादेनसो विश्वान्मुञ्चन्त्व गूँ हसः स्वाहा - इदं सूर्य्याय न मम || भूराद्यानवाहुतयः || स्विष्टकृतम् | संस्रवजलं कुंभमय-विष्णुहस्ते दद्यात्।।प्रणिता विमोकान्तम् | अनेन कुष्माण्ड संज्ञकैर्मन्त्रैः प्रायश्चित्त होम कर्मणा परमेश्वरः प्रीयताम् | तेन वृषलीपतित्व दोषनिवृत्तिरस्तु ||
(विष्णुं मधुपर्केणार्चयेत्) --> कुम्भविवाङ्गत्वेन विष्णुंं मधुपर्केणार्चयिष्ये। गणपतिं स्मृत्वा।। साधु भवानास्तामर्चयिष्यामो भवन्तम्| दाता- अहं अर्चयिष्यामि| पंचविंशतिकुशात्मकं विष्टरं गृहित्वा- विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्|विष्टरं स्थापनोपरि उदगाग्रं स्थापयेत् - ॐवर्ष्मोस्मि समानानामुद्यतामिव सूर्य्यः|इमन्तमभितिष्ठामि यो मा कश्चाभिदासति|| (पुराणोक्ते - श्रेष्ठोऽस्मि वै समानानामुद्यतामिव भास्करः। तिष्ठामि त्वामधः कृत्वा य इदं मेऽभिदीयते।।) तत्रोपरि वरोपवेशनं भावयित्वा|दाताः- पाद्यपात्रं गृहित्वा पादार्थं उदकं पादार्थं उदकं पादार्थं उदकं प्रतिगृह्यताम्|| महाविष्णोः द्दक्षिणं प्रथमं पश्चात् वामं पादं प्रक्षालयेत्  |  ॐविराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः|| (पुराणोक्ते - विराजो दोहो भवसि विराजोदोहमश्नवै। विराजो दोहः पाद्याय मयि त्वं भव भो जल)" दाताः- (द्वितीयः)विष्टरो गृहित्वा  विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम्| द्वितीय विष्टरं स्थापनादधो उदगाग्रं निधाय- ॐवर्ष्मोस्मि समानानामुद्यतामिव सूर्य्यः| इमन्तमभितिष्ठामि यो मा कश्चाभिदासति|| (पुराणोक्ते - श्रेष्ठोऽस्मि वै समानानामुद्यतामिव भास्करः। तिष्ठामि त्वामधः कृत्वा य इदं मेऽभिदीयते।।)भगवन्तं तत्रासने पादौ करोत्यति ध्यायन् ||दाता- गंधपुष्पाक्षतैर्युतं अर्घ्यपात्रं गृहित्वा " अर्घो अर्घो अर्घः प्रतिगृह्यताम्||शिरसाभिवंदनं कृत्वा विष्णोः समिपे स्थापयित्वा- ॐ आपस्थ युष्माभिः सर्वान् कामानवाप्नवानि|| (पुराणोक्ते- वयं वरुण युष्माभिः सर्वान् कामानशेषतः। अतोर्घं त्वं गृहाणेमं भो ह्यापस्थमवाप्नुयात्।।)" अर्घ्यदानवत् प्राग्वा उदग्वासिंचेत् ॐसमुद्रं वः प्रहिणोमि स्वां योनिमभि गच्छत| अरिष्टाऽस्माकं वीरा मा परा सेचिमत्पयः||(पुराणोक्ते- गमयामि समुद्रं स्वां योनिमापप्रयान्तु वै। वीरा अरिष्टाश्चास्माकं मापरासेचिमत्पयः)" दाता- आचमनीयपात्रं गृहित्वा " आचमनीयं उदकं/आचमनीयं उदकं/आचमनीयं उदकं प्रतिगृह्यताम्| ॐआमागन्यशसास गूं सृेज वरेचसा|तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम्|| (पुराणोक्ते - प्रियं जनानां यशसा पशूनां स्वामिनं कुरु। शरीरीणामरिष्टानि वरुणाचमयाम्यहम्।।)" इति अश्वत्थाय आचमनं मंत्रेण दत्वा || तूष्णींद्विवारम्|| दाता- काँस्यपात्रे विषममात्रया दधिमधुघृतम् एकीकृत्य तदुपरि द्वितीयं पात्रमधोमुखं निधाय||कांस्यपात्रेण संपुटं गृहित्वा मधुपर्को मधुपर्को मधुपर्कः प्रतिगृह्यताम्|| कांस्यपात्रमुद्घाट्य |विष्णोः मधुपर्कं प्रतीक्षते"ॐमित्रस्य त्वा चक्षुखा प्रतिक्षे||(पुराणोक्ते- समीक्षामि यथा सर्वाण्यह भूतानि चक्षुषा। तथाहं मधुपर्कं च प्रतीक्षामि खलु प्रभो)"इति निरिक्ष्य|| ॐदेवस्यत्त्वा सवितुः प्प्रसवेश्विनोर्ब्बाहुभ्यां पूष्णो हस्ताभ्याम्| प्रतिगृह्णामग्ग्नेेष्ट्वास्येन प्राश्नामि|| (पुराणोक्ते -पूष्णो देवस्य सवितुर्हस्ताभ्यामाददे किल। मधुपर्कं भर्ग रूपमाश्विनं सूर्य दैवतम्।।)"प्रतिगृह्णामिति दक्षिणेन प्रगृह्य वामेकृत्वा  अनामिकया मधुपर्कं त्रिः प्रदक्षिणमालोडयति ॐ नमः श्यावाश्यायान्नशने यत्तऽआविद्धं तत्ते निष्कृन्तामि| (पुराणोक्ते- प्रयौमि मधुपर्कं च नाशने नादनीयकं। निष्क्रन्तामि च यत्तद् द्वैश्यावास्याय नमो नमः।।)" अनामिकाअंगुष्ठेनच त्रिर्निरुक्षयति||विष्णुस्वरूपाश्वत्थाय  प्राशनार्थं स्थापनोपरि  स्थापयेत् - ॐमधुव्वाता(१)इति प्रथमवारं/ ॐमधुनक्त०(२)इति द्वितीयवारं/ ॐमधुमान्नो०(३)इति तृतीयवारम् (पुराणोक्ते- परमेण मधव्येन रूपेणान्नाद्यकेचन। मधव्यं परमं तेन ह्यश्नामि मधुनोशनम्।।इति त्रिर्वारम् )"देवं प्राश्नीवन्तं विभाव्य | दाता-आचमनीय जलं दद्यात्- अङ्गन्यासार्थं जलं दद्यात् मंत्रान्पठेत्  ||मुखे ॐवाङ्मऽआस्येस्तु|| नासिकयोः ॐनर्सो मे प्राणोस्तु||नेत्रयोः ॐअक्ष्णोर्मे चक्षुरस्तु||कर्णयोः ॐकर्णयोर्मे श्रोतमस्तु||बाह्वोः ॐबाह्वोर्मे बलमस्तु|| उर्वोः ॐउर्वोर्मे ओजोस्तु||सर्वांगेषु ॐअरिष्टानिमेङ्गानि तनूस्तन्वामे सह सन्तु|| (पुराणोक्ते - जलेन तूष्णींऔष्ठौ,नासिका,अक्ष्णोः,कर्णौ,बाहुद्वयं,उरुद्वयं, सर्वाङ्गाणि च स्पृशेत्)"दाता- गोर्मूल्यं वा तन्निष्क्रयी मनसोद्दिष्ट द्रव्यं गृहित्वा"गोर्मूल्यं वा तन्निष्क्रयी मनोद्दिष्टं द्रव्यं गंधपुष्पाद्यर्चितं रुद्रदैवतं वराय तुभ्यमहं सम्प्रददे न मम||तद् द्रव्यं वराय दत्वा  स्वस्ति||इति ब्रुयात्|| मम च अमुष्य च पाप्मानं हनोमि|| अथ यद्युसिसृक्षेन्मम ____यजमानस्य उभयोः पाप्माहतः||(पुराणोक्ते- वसूनां दुहिता माता रुद्राणां भास्करस्वसा। ब्रवीमि गां मावधिष्ट जनाय चेतना वृते।।) ॐपरिधास्यै०इति वस्त्रं, ॐयज्ञोपवीतं परमं० इति उपवीतं,ॐसुचक्षा अह० इति गंधं,ॐअनाधृेष्टा० इति अक्षतान्, ॐओषधीः प्रति० इति पुष्पमालां, ॐवसोः पवित्रमसि शत० इति सुगंधितैलं वराय समर्प्य| (पुराणोक्ते वस्त्राद्युपहारान् सर्वं तूष्णीं दद्यात्)"हस्ते जलमादाय अनेन मधुपर्कार्चनेन परमेश्वरः प्रीयतां न मम||


No comments:

Post a Comment

पूजा आदि में सिर नहीं ढंका चाहिए

शास्त्र प्रमाण:- उष्णीषो कञ्चुकी चात्र मुक्तकेशी गलावृतः ।  प्रलपन् कम्पनश्चैव तत्कृतो निष्फलो जपः ॥ अर्थात् - पगड़ी पहनकर, कुर्ता पहनकर, नग...