#अष्टवर्षं_ब्राह्मणमुपनयेद्गर्भाष्टमे_वैकादशवर्षं_राजन्यं ..... ।
इत्यादिभि: शास्त्रवचनै: ब्रह्मक्षत्रविशाञ्चोपनयनकालो विहित:।
ननु तपश्रुताभ्यां हीनस्य शिशो: "ब्राह्मणोsयं" इति कथनं प्रमादमात्रमेव। कथमत्र विहितकर्महीनस्य अयं ब्राह्मण: क्षत्रिय: वेति निर्णय: ? तस्माज्जन्मना सर्वेषां शूद्रत्वमिति कल्पनं वरम्। न तु ब्राह्मणादिकल्पनम्। अपि च "ब्रह्म जानातीति ब्राह्मण:" इत्यनेन यो ब्रह्म जानाति सो ब्राह्मण: इति सिद्ध्यति।
इति चेत् न। अष्टवर्षं....इत्यादिशास्त्रवचने ब्राह्मणादिपदेन ब्राह्मणदम्पत्यो: उपनेतुं योग्य: पुत्रो गृह्यते। एवं क्षत्रियादिपदेनापि बोध्यम्।
#ब्राह्मण्यां_ब्राह्मणाज्जातो_ब्राह्मण: #स्यान्न_संशय:। इति
_____महा.अनु.पर्व -४७/२८
तप: श्रुताभ्यां हीनोsपि ब्राह्मणाज्जात: ब्राह्मण: इति कथनं न प्रामादिकम्। यत: तप:श्रुताभ्यां यो हीन: सो जातिब्राह्मण एव भवति। यदाह भगवान् पतञ्जलि: :--
#तप:#श्रुतञ्च_योनिश्चेत्येतद्_ब्राह्मणकारणम्।
#तप:#श्रुताभ्यां_यो_हीनो_जातिब्राह्मण_एव_स:।।
____पा.भा.२/२/६,५/१/११५
चेज्जन्मना शूद्रत्वं भवदूक्तदिशा कल्पयेत्तर्हि अष्टवर्षं....... इत्यादिशास्त्रवचनानां वैयर्थ्यापत्ति:। अतो व्यर्थमिदं स्वमतपोषकपरं कपोलकल्पनं व:।
#ब्रह्म_जानाति_ब्रह्मज्ञ: न तु ब्राह्मण:। इत्यलं भ्रमोच्छेदेन। शम्
जय श्री राम।।
No comments:
Post a Comment