पुराणोक्त गोमुखप्रसवशांति प्रयोगः -- सपत्नीको यजमानः प्राङ्गमुख उपविश्य, देवब्राह्मणान् नमस्कृत्य, सुमुखश्चेत्यादि पठित्वा, देशकालौ संकीर्त्य- अस्य(अस्याः) बालकस्य(बालिकायाः) "अमुक" उत्पत्ति सूचितारिष्टशान्त्यर्थं गोमुखप्रसवशांतिं करिष्ये। तत्रादौ गणपतिपूजनमाचार्यवरणं च करिष्ये। तत आचार्यः - श्वेतचूर्णैः गृहाद्बहिरीशानदिग्भागे पद्मं(अष्टदलं)कृत्वा तत्र व्रीहिराशिं कृत्वा, तत्र वंशनिर्मितशूर्पं स्थापयित्वा ,शूर्पे रक्तवस्त्रं प्रसार्य तत्र तिलान् विकीर्य, शूर्पे प्राङ्गमुखं शिशुं निधाय सूत्रेण सशिशुं शूर्पं वेष्टयित्वा शिशुसमीपे गोमुखमानीय(गाय को लाकर , गायके मुख को शिशु के अभिमुख करे)प्रसवं विभाव्य (गाय के मुख से शिशु का प्रसव हुआ ऐसी कल्पना करे)
ततो गां सर्वांगेषु वामाङ्गेषु वा स्पृष्ट्वा पठेत् - "गवामंगेषु तिष्ठन्ति भुवनानि चतुर्दश।यस्मात् तस्माच्छिवं मे स्यादिहलोके परत्र च।।" तत आचार्यः शिशुमादाय "मात्रे" दद्यात्, ततो मात्रा पित्रे दद्यात्, पिता मात्रे दद्यात्, ततः पिता वस्त्रमुद्घाट्य शिशुमुखमीक्षेत् , तत आचार्यः कृत पञ्चगव्येन "अपवित्रः पित्रे वा०" इति मन्त्रेण शिशुमभिषिंचेत्, ततः पिता त्रिवारं शिशुं मूर्धनि जिघ्रेत्, ततो ब्राह्मणैः पञ्चवाक्यैः पुण्याहं वाचयेत्, भो ब्राह्मणाः अस्य कर्मणः पुण्याहं, कल्याणं,ऋद्धिं, स्वस्तिं, श्रीरस्तु इत्यादि ब्रूयुः, तत आचार्याय गां वा गोरभावे निष्कं तदर्द्धं पादमेव वा सुवर्णं रजतं वा दद्यात् --(१ निष्क=८०रत्ती, ८०रत्ती=४०ग्राम, तदर्द्धम् - २०ग्राम, पादम्=१०ग्राम)
स्थंडिलोपरि अग्निं संस्थाप्य, "(अधिप्रत्यधिदेवता रहितानाम्)-केवल सूर्यादिनवग्रहाणां स्थापनं कृत्वा, यथाशक्त्या पूजनं कुर्यात्, ततो अग्नेरीशान्यां पीठोपरि श्वेतवस्त्रं प्रसार्य तदुपरि तंडुलेनाष्टदलं निर्माय, मध्ये " विश्वाधारासित्यादिना कलशं संस्थाप्य," तस्मिन् कलशे पञ्चगव्यं , तिलान्, अश्वत्थवटोदुम्बरवृक्षाणां क्वाथितं जलं क्षिप्त्वा, वस्त्रयुग्मेन वेष्टयित्वा, तदुपरि कृताग्नुत्तारणपूर्वकं विष्णोः,वरुणस्य यक्ष्मणश्च मूर्तित्रयं संस्थाप्य, नाममंत्रेणावाह्य , विष्णवाद्यावाहितदेवताभ्यो नमः इति यथाशक्त्या पूजनं कुर्यात्। चरुवर्जं ब्रह्मासनाद्याज्यभागान्तं कृत्वा - यजमानः द्रव्यत्याग संकल्पं कुर्यात् - इमानि सम्पादितानि मिलित दधिमध्वाज्यद्रव्याणि या या यक्ष्माण देवताः ताभ्यस्ताभ्यो ब्राह्मण द्वारा परित्यक्तं न मम।।
ब्राह्मणत्रय द्वारा- मिलित दधिमध्वाज्यैः विष्णुं सकृत् अपश्चतुर्वारं यक्ष्माणमष्टवारं नाममन्त्रैः "(ह्रीं विष्णवे स्वाहा १, ह्रीं वरुणाय स्वाहा ४, ह्रीं यक्ष्मणे स्वाहा ८)" होमं कुर्यात् - यजमानः भाण्डे जलं त्यजेत् - इदं अमुकाय न मम"
ततो ग्रहमंत्रैश्चैकैकाहुतिं दधिमध्वाज्येन जुहुयात्, स्विष्टकृन्नवाहुतीः - "(हुत शेषेण - ह्रीं अग्नये स्विष्टकृते स्वाहा-इदमग्नये स्विष्टकृते न मम, ह्रीं अग्नये स्वाहा-इदं अग्नये न मम, ह्रीं वायवे स्वाहा-इदं वायवे न मम, ह्रीं सूर्याय स्वाहा-इदं सूर्याय न मम, ह्रीं अग्निवरुणाभ्यां स्वाहा- इदमग्निवरुणाभ्यां न मम, पुनः
ह्रीं अग्निवरुणाभ्यां स्वाहा- इदमग्निवरुणाभ्यां न मम, ह्रीं अग्नये अयसे स्वाहा- इदमग्नये अयसे न मम, ह्रीं वरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यः मरुद्भ्यः स्वर्क्केभ्यश्च स्वाहा- इदं वरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यः मरुद्भ्यः स्वर्क्केभ्यश्च न मम, ह्रीं वरुणायादित्यादितये च स्वाहा- इदं वरुणायादित्यादितये च न मम, मनसा- ह्रीं प्रजापतये स्वाहा-इदं प्रजापतये न मम)"
संस्रवप्राशनं पवित्राभ्यां जलेन मार्जनं , अग्नौ पवित्रप्रतिपत्तिः ब्रह्मणे पूर्णपात्रदानम् (४०मुष्टि तंडुल)- "ब्रह्मन् इदं पूर्णपात्रं तुभ्यमहं सम्प्रददे न मम",
प्रणीताविमोकोदकेन मार्जनं ब्राह्मणभोजन पर्याप्तामान्नदान संकल्पं कुर्यात् - " ब्राह्मणभोजनपर्याप्तामान्नं द्विगुणं त्रिभ्योधिकेभ्यः ब्राह्मणेभ्यः सदक्षिणाकमहं सम्प्रददे न मम ", देवताविसर्जनमग्नेश्च - " यान्तु देवगणाः सर्वे पूजामादाय पार्थिव। इष्टकाम प्रसिद्ध्यर्थं पुनरागमनाय च।। गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर। यत्र ब्रह्मादयो देवा तत्र गच्छ हुताशन।।
हेमाद्री---> "(स्वजातिं प्रसवं त्यक्त्वा अन्यनारी प्रसूयते। तदा प्रभृत्यसौधेनुः सर्वपापविवर्द्धिनी। तस्मादेनां द्विजोधृत्वा सद्यः पातित्यमर्हसि।मृतो नरकमाप्नोति पुलिन्देष्वभिजायते।। *तस्योपनयनं भूयः* कार्यों चान्द्रायणत्रयम्।एषा निष्कृतिरस्येह नाऽन्यथाशुद्धिरिष्यते।। इति गोमुखजनन धेनुप्रतिग्रह प्रायश्चित्त।।
No comments:
Post a Comment