Friday, 30 November 2018

गौयागम्

गौयागम्~नित्यक्रिय:संध्योपासनादि संक्षेपतः समाप्य यागपूर्वदिने देहशुद्धिप्रायश्चित्तं पञ्चगव्यप्राशनं चान्द्रायणव्रतं तत्  प्रत्याम्नायेन अब्दपर्यन्तं गौग्रासनिमित्तं गौशालायां यथाशक्ति सुवर्णं वा तन्निष्क्रयीभूतं वर्तमाननाणकद्रव्यं गौशालायां उत्सृजामि तेन गौयागकरणाधिकार प्राप्तिरस्तु ||
यागदिने प्रातःकृत्यं समाप्य कृतसंध्यावंदन सपत्नीकयजमानः छायामंडपे पूर्वाभिमुखोपविश्य- आचम्य-प्राणानायम्य" पुनः पञ्चगव्यं प्राशनानान्ते द्विराचम्य" सुमुखश्चेत्यादि पठित्वा- देशकालौ संकीर्त्य- मम आत्मनः श्रुतिस्मृतिपुराणोक्त पुण्यफल प्राप्त्यर्थं प्रवर्त्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु अनेकधा जनित्वा केनापि पुण्यकर्मविशेषेण भगवत् कृपाकटाक्ष वीक्षणात्म सहायेन साम्प्रतिकं दुर्लभातिदुर्लभं मानवं देहं आसादितवतः आजन्मनः सर्वासु अवस्थासु ज्ञाताज्ञात अवस्थासम्भवानां समेषां एनसां अपनोद पूर्वकं मम सकुटुम्बस्य सपरिवारस्य आत्मना सह समस्त पितृणां उद्धारणार्थं अस्मिन् महायज्ञे कायिक वाचिक मानसिक आर्थिक सहयोगेन साहाय्यकारिणाम् सर्वेषां जनानां चतुर्विध पापक्षय पूर्वकं त्रिविध तापोपशान्ति सकल दुःख अशेष निवृत्तिपूरस्सरं गौवंश माहात्म्याभिवृद्ध्यर्थं सद्धर्म सद्बुद्धि सद्विद्या सद्विवेक सदाचारादि प्राप्त्यर्थं सनातन धर्मेऽस्मिन् निरतिशय श्रद्धा भक्ति सम्पत्त्यर्थं सर्वविधसस्यता वृद्धिपूर्वक वृक्षादीनां फलपुष्प समृद्ध्यर्थं धर्म ग्लानिः अधर्माभ्युत्थान निवृत्तिपूर्वकं धर्मसंस्थापनार्थं"गावो विश्वस्य मातरः"इति प्रतिष्ठा सिद्ध्यर्थं भगवान् इन्द्रश्च सुरभीगौ देवता प्रीत्यर्थं  अमुकदिनसाध्य सग्रहमखं गौयागं करिष्ये | तदङ्गत्वेन गणपतिपूजनं पुण्याहवाचनं(कर्मांग देवता प्रजापतिः) मातृकापूजनं वैश्वदेवसंकल्पं नान्दीश्राद्धं आचार्यादि ब्राह्मणवरणं वर्द्धिनीपूजां मंडपप्रवेशं च करिष्ये | विधिवत् तानि कर्माणि क्रमेण समाप्य दिग्रक्षणं देवताऽवाहनं रक्षोपसारणं  अर्घ्यदानपूर्वकंभूमिपूजनं च समाप्य मंडपदेवताभ्यो नमः इति सम्पूज्य, वर्द्धिनीकलशं नित्वा मंडपप्रादक्षिण्येन पश्चिमद्वारेण प्रविश्य मंडपैशान्यां ग्रहस्थापनाद्दक्षिणे धान्यराशौ वर्द्धिनीकलशं संस्थाप्य नाममंत्रेण पूर्णपात्रान्तरे केवलनवग्रहान् सम्पूज्य" अक्षतैः विसृज्य" तत्कलशोदकेन दुग्धेन च मंडपपरितः ऐशानीमारभ्य ऐशानीपर्यन्तं प्रादक्षिण्येन जलधारापयोधाराश्च पवमानमंत्रैः कुर्यात् || मंडपाङ्गगणपतिपूजनं कृत्वा- स्तंभ सहित सकलशद्वारतोरणध्वजपताकादिनां च सम्पूज्य बलिदानान्तं कुर्यात् || ब्रह्मादिवास्तुमंडलदेवतानां अर्चयन् कुंडपूजां वैनायक्यादि योगिनीनां अजरादिक्षेत्रपालपीठ देवतानां च सम्पूज्य कुंडेस्वगृह्योक्त मार्गेण संस्कारपूर्वक बलवर्द्धन नामाग्निं प्रतिष्ठाप्य || अन्वाध्यायेत्- अस्मिन्नन्वाहिते अग्नौ अग्निजातवेदसमिध्मेन, प्रजापतिं प्रजापतिं चाधारदेवते आज्येन,अग्नीषोमौ चक्षुषी आज्येन।आदित्यादि नवग्रहान् अष्टाविंशतिवारं वा(अष्टवारं)यथा लाभ समिद्ध(यव)चरु तिलाज्यद्रव्यैः। ईश्वरादिआधिदेवता अग्न्यादिप्रत्याधिदेवताश्च अष्टवारं वा(चतुर्वारं)तेरैव द्रव्यैः। विनायकादि सप्तदेवता इन्द्रादिदिक्पालदेवताश्च चतुर्वारं वा(द्विवारं)तेरैवद्रव्यैः।(अयुताधिक आहुतयः पक्षे)-शेषादि मनुष्यान्तदेवताः (द्विवारं)तेरैव द्रव्यैः। अत्र प्रधानदेवते इन्द्रगौश्च"आ गावो इति अष्टर्चस्य सूक्तेन"सहस्रवारं(अयुतवारं-लक्षवारं वा)पालाश(अश्वत्थ)समिद्घ, गौरसर्षप,पायस,तिल,चतुरंगुला$मृतालताखंड,यव द्रव्यैश्च दधि मधु घृतेति त्रिर्मधुद्रव्येण,गवांमगेषु आवाहित देवताः( दशवारं)पायसचरुणा,इन्द्रपीठदेवता यंत्रावरणदेवताश्च (दशवारं)तिलाज्येन,
सर्वतोभद्रमंडलदेवताः(दशवारं) तिलाज्येन-[इति प्रधान होमः]। वास्तुपीठ,गजाननादियोगिनीपीठ,अजरादिक्षेत्रपालपीठदेवताश्च (दशवारं)तिलाज्येन। आदित्यादिनवग्रहान् प्रीयफलेन आज्येन वा,गणपतिं पञ्चवारं मोदकेन,त्र्यंबकं गुग्गुलेन,श्रीसूक्तस्यपंचदशर्चेन सक्तुमिवेति मंत्रेण च महालक्ष्मीं अमृतेन, महाकालीं महालक्ष्मीं महासरस्वतीं अमृतेन,नवार्णमंत्रेण त्रिगुणात्मिका दुर्गां अमृतेन,समस्तव्याहृतिभिः प्रजापतिं अयुतवारं वा(सहस्रवारं-अष्टोत्तरशतवारं वा) तिलाज्येन वा(आज्येन),हुत शेषेण स्विष्टकृतमग्निं, ईध्मेन सन्नहनेन रुद्रं,अयासमग्निं देवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन,(ब्रह्मा ते समिधत्रयं  गृहित्वा) अयासमग्निंदेवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन, पुनः यजमान: ब्रह्मणःहस्ताद् समिद्ध त्रयेण- ज्ञाताज्ञातदोष निबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान् देवान् संस्रवेणांगदेवताः प्रधानदेवताः सर्वाः सन्निहिताः संतु गौयाग कर्मणा श्वोयक्ष्ये..समस्त व्याहृतिनां प्रजापतिर्प्रजापतिर्बृहती अन्वाधान समिद्ध होमे विनियोगः....
ॐभूर्भुवःस्वःस्वाहा- प्रजापतये इदं न मम।।

अन्वाधानं समाप्य- प्रधानपीठे रचितेसर्वतोभद्रमंडले ब्रह्मादि षट्पञ्चाशतदेवताः आवाह्य च सम्पूज्य। महिद्यौरित्यादिभिः पूर्णपात्रान्तकलशं संस्थाप्य कलशे सतीर्थवरुणं सम्पूज्य...देवदानव संवादे००० त्वत्प्रसादादीमां इन्द्रगौश्च पूजां कर्तुमिहे जलोद्भव। सान्निध्यं कुरुमे देव प्रसन्नो भव सर्वदा।।इत्यादिभिर्प्रार्थ्य।। पूर्णपात्रे पीठदेवताः स्थापयेत्- -इन्द्र पीठस्था० मध्यकलशपूर्णपात्रे नमस्कार: स्ववामे गुरुभ्योनम: दक्षिणे गणपतयेनमः मध्ये-शचीपुरन्दर सहित सुरभीगवे  नमः- स्थापनम् - नाममंत्रान्ते आवाहयामि स्था० सर्वत्र, पीठमध्ये मं मंडूकायन: कं कालाग्निरुद्रायनमः अंआधारशक्तयेनमः कूं कूर्मायनमः अं अनन्तायनमः पृं पृथिव्यैनमः क्षीं क्षीरसागरायनमः रं रत्नद्वीपायनमः रं रत्नमंडपायनम: कं कल्पवृक्षायनमः रं रत्नवेदिकायैनमः रं रत्नसिँहासनायनमः आग्नेयां- धं धर्मायनमः नैर्ऋत्यां- ज्ञां ज्ञानायनमः वायव्यां- वैं वैराग्यायनमः ऐशान्यां- ऐं ऐश्वर्याय नमः पूर्वे- अं अधर्मायनमः दक्षिणे- अं अज्ञानायनमः पश्चिमे- अं अवैराग्यायनम: उत्तरे- अं अनैश्वर्यायनमः पुन: पीठमध्ये- आं आनन्दकन्दायनमः सं संविनालायनमः सं सर्वतत्त्वकमलासनाय नमः प्रं प्रकृतिमयपत्रेभ्योनमः विं विकारमयकेसरेभ्योनमः पं पञ्चाशद्वर्णाढ्यकर्णिकाभ्योनमः अं अर्कमंडलाय द्वादशकलात्मनेनमः सों सोममंडलाय षोडशकलात्मने नमः वं वह्निमंडलाय दशकलात्मनेनमः सं सत्वायनमः रं रजसेनमः तं तमसेनमः आं आत्मनेनमः पं परमात्मने नमः अं अन्तरात्मनेनमः ह्रींज्ञानात्मनेनमः मं मायातत्त्वायनमः कं कलातत्त्वायनमः विं विद्यातत्त्वायनम: पं परतत्त्वायनमः पीठशक्तीः * पूर्वादि क्रमेण अष्टदिक्षु विं विमलायैनमः उं उत्कर्षिण्यैनमः ज्ञां ज्ञानायैनमः क्रिं क्रियायैनमः यों योगायैनमः प्रं प्रह्व्यैनमः सं सत्यायैनमः ईं ईशानायैनमः मध्ये अं अनुग्रहायैनमः ऊं मनोजुति०  इतिप्रतिष्ठाप्य।
पुष्पासनमंत्रः - ऊँ ह्रीं सर्वशक्तिकमलासनायनमः इतिपुष्पेण पीठे आसनं दत्वा ऊँ उपज्मन्नु पवेतसे० पीठदेवताभ्योनमः इति संपूज्य. प्रतिष्ठित यंत्र स्थापनं कृत्वा यंत्रेदेवतान्आवाहयेत्- यंत्रदेवताः मध्ये इं इन्द्रायनमः षट्कोणेषु आग्नेयादिक्रमेण पूर्वेपश्चिमेच- इं हृदयायनम: इं हृदयं आवाह्यामि, इं शिरसे स्वाहा इं शिरं आवाह्यामि, इं शिखायै वषट् इं शिखां आवाह्यामि, इं कवचाय हुम् इं कवचं आवाह्यामि, इं नेत्राभ्यांवौषट् इं नेत्रद्वयं आवाह्यामि, इं अस्त्रायफट् इं अस्त्रं आवाह्यामि इति १आवरणम्. आवाह्यामि  स्थापयामि सर्वत्र- अष्टदलेषु कं कार्तिकेयायनमः रं अग्नयेनम: मं यमायनम: क्षं निर्ऋतयेनम: वं वरुणायनमः यं वायवेनमः सं सोमायनमः ईंशानायनमः इति २ आवरणम् . पुनस्तथैवदलाग्रेषु- शशिदेव्यप्सरायैनमः तिलोत्तमाप्सरायैनमः कांचनमालाप्सरायैनमः कुंडलाहारिण्यप्सरायैनमः रत्नमालाप्सरायैनमः रंभाप्सरायैनमः उर्वश्यप्सरायैनमः श्रीभूषण्यप्सरायैनमः इति३आवरणम्. भूपुरे इन्द्रादि दश दिक्पालान् क्रमेण. इति४आवरणम्.पुनः भूपुरे इन्द्रादिसमीपेषु वज्राद्यायुधानि क्रमेण.इति ५आवरणम्. यंत्रराजाय वि० महायंत्राय धी० तन्नो यंत्र: प्र० इति यंत्रगायत्र्या यंत्रं सम्पूज्य विस्तारेण पूजां महापूजा समये.......कर्तव्याः। भूशुद्धिः* इन्द्रमंत्रस्य ब्रह्माऋषि: पंक्तिश्छंदः इन्द्रो देवता इं बीजं आय शक्तिः आचमने प्राणायामे विनियोगः ऊँ इं इन्द्रायनमः इति मूलेन त्रिः आचम्य तेन मंत्रेण त्रिवारं प्राणानायाम्य. नमस्कारः दक्षिणे सं सरस्वत्यैनमः शंखनिधयेनमः वामे लं लक्ष्म्यैनम: पद्मनिधयेनमः पृथ्विरिति मंत्रस्य मेरुपृष्ठ० सुतलं छं० कूर्मो दे० आसने विनियोगः उत्तान हस्ताभ्यां धरणिं स्पृष्ट्वा "पृथ्वि त्वया$धृता ० सपरिवारायै भूम्यैनमः इति संपूज्य . स्वासने कुशत्रयं निदद्यात् कूर्मासनायनम: अनन्तासनायनम: पद्मासनायनमः गंधपुष्पाभ्यां आसनशक्तिभ्योनम: इति संपूज्य. शिखाबन्धनम्.  दिग्रक्षणम् -अपसर्पन्तुमंत्रैः० चतुर्दिक्षुतर्जन्यंगुष्ठास्फोटनेन दिग्बंध:- नमः शार्ङ्गाय सशराय सुदर्शनाय अस्त्रराजाय हुं फट् वामपादेन भूमौघातत्रयकरणम्. नमस्कारः तीक्ष्णदँष्ट्रमहाकाय० उदको$पस्पर्शः | नमस्कारः - दक्षिणे गुरुभ्योनमः परमगुरुभ्योनमः परमेष्ठिगुरुभ्योनमः परात्परगुरुभ्योनमः नारद सनक उपमन्यु व्यासादिभ्योनमः आचार्येभ्योनम: सिद्धेभ्योनमः वामे- गणपतयेनमः दुर्गायैनमः क्षेत्रपालायनमः बटुकायनमः क्षेत्रेशायनमः मध्ये-शचीपुरन्दर सहित गवे नमः भूरसि इत्यस्य प्रजापतिः मातृका प्रस्तारपंक्तिः भूशुद्धौ विनियोग: भूमिं स्पृशन्  ऊँ भूरसि भूमि० भैरवनमस्कारः- जो भूतानामधि० इति. अथ  भूतशुद्धिः संक्षिप्तविधिः-प्राणायाम त्रयं कृत्वा ऊँ हौं इति मनसा अष्टोत्तरशतवारं जपेन.( ज्योतिर्मंत्रं महेशानि शतमष्टोत्तरं जपेत्|एतत् विज्ञान मात्रेण भूतशुद्धिर्विधियते||) इति भूत शुद्धिः|
आ गावो इत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यभरद्वाजौ इन्द्रगावश्च  त्रिष्टुप् द्वितीयाचतुर्थी जगती अंत्यानुष्टुप् पूजनादौ न्यासे विनियोगः- ॐ बार्हस्पत्यभरद्वाजऋषिभ्यां नमः शिरसि। ॐ त्रिष्टुप् जगत्यनुष्टुप् छंदेभ्यो नमः मुखे ।ॐ इन्द्रगौर्देवताभ्यां नमः हृदये । ॐ विनियोगाय नमः सर्वांगे। ॐ आ गावो अग्मन्नुत भद्रमक्रन् त्सीदन्तु गोष्ठे रणयन्त्वस्मे। वामकरे। ॐ प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः।।१।। दक्षिण करे।। ॐ इन्द्रो यज्वने पृणते च शिक्षत्युपेद् ददाति न स्वं मुषायति। वामपादे।। ॐ भूयो भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्।।२।। दक्षिण पादे।। ॐ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति। वामजानौ।। ॐ देवाँश्च याभिर्यजते ददाति च ज्योगित् ताभिः सचते गोपतिः सह।।३।। दक्षिणजानौ।। ॐ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि। वामकट्याम्।। ॐ उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः।।४।।दक्षिणकट्याम्।। ॐ गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः। नाभौ।। ॐ इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्।।५।। हृदये।। ॐ यूयं गावो मेदयथा कृशं चिदश्रीरं चित् कृणुथा सुप्रतीकम्। वामबाहौ।। ॐ भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु।।६।। दक्षिणबाहौ।। ॐ प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। कण्ठे।। ॐ  मा  वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः।।७।। मुखे।। ॐ उपेदमुपपर्चनमासु गोषुप पृच्यताम्। नेत्रयोः।। ॐ उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये।। ऋग्वेदे ६मं०२८सू०१-८।। मूर्ध्नि।। ॐ देवराजाय अंगुष्ठाभ्यां नमः। विद्महे तर्जनीभ्यां नमः। वज्रहस्ताय मध्यमाभ्यां नमः। धीमहि अनामिकाभ्यां नमः। तन्नः शक्रः कनिष्ठिकाभ्यां नमः। प्रचोदयात् करतल करपृष्ठाभ्यां नमः। ॐ देवराजाय हृदयाय नमः। विद्महे शिरसे स्वाहा। वज्रहस्ताय शिखायै वषट्। धीमहि कवचाय हुम्। तन्नः शक्रः नेत्राभ्यां वौषट्। प्रचोदयात् अस्त्राय फट्।।लिंगपुराण उत्तरार्ध४८/१८।। ॐ तीक्ष्णश्रृंगायै अंगुष्ठाभ्यां नमः। विद्महे तर्जनीभ्यां नमः। वेदपादायै मध्यमाभ्यां नमः। धीमहि अनामिकाभ्यां नमः। तन्नो गौरी कनिष्ठिकाभ्यां नमः। प्रचोदयात् करतल करपृष्ठाभ्यां नमः। ॐ तीक्ष्णश्रृंगायै हृदयाय नमः। विद्महे शिरसे स्वाहा। वेदपादायै शिखायै वषट्। धीमहि कवचाय हुम्। तन्नो गौरी नेत्राभ्यां वौषट्। प्रचोदयात् अस्त्राय फट्।। इति विन्यस्य ।।
शचीपुरन्दर सहित गौ प्रतिमानां  अग्न्युत्तारण पूर्वकप्राणप्रतिष्ठां कृत्वा। मूर्तिषु देवतामावाहयेत्~ इंद्रं वो मधुच्छंदा इंद्रो गायत्री शचीपुरन्दरौ आवाहने विनियोगः-ॐ इंद्रं वो विश्वतस्परि००। आवाह्याम्यहं देवं महेन्द्रं च महाप्रभुम्|पीतवर्णं गजारुढं वज्रपाणिं सुरेश्वरम् ||पाश वज्रधरं देवं वरदाभय पाणिनम्| सांगाभ्यां सपरिवाराभ्यां शचीपुरन्दराभ्यां नमः आवा०स्था०। आयंगौः सार्पराज्ञी सर्पागायत्री सुरभीगां आवाहने विनियोगः- ॐ आयंगौः पृश्निर००। आवाहयाम्यहं देवीं गां त्वां त्रैलोक्य मातरम्। यस्याः स्मरण मात्रेण सर्वपाप प्रणाशनम्।। सांगायै सपरिवारायै सुरभीगवे नमः आवा०स्था०। गवामंगेषु देवताः आवाहयेत् - श्रृंगमूलयोः-ब्रह्मविष्णुभ्यां नमः। श्रृंगाग्रयोः- सर्वतीर्थेभ्यो। शिरोमध्ये-महादेवाय। ललाटे-गौर्यै। नासापुटयोः-कम्बलाश्वतराभ्यां। कर्णयोः-अश्विभ्यां। नेत्रयोः-शशिभास्कराभ्यां। दन्तेषु-सर्ववायवे। जिह्वायां-वरुणाय। हुं कारे-सरस्वत्यै। गण्डयोः-मासपक्षाभ्यां। ओष्ठयोः-सन्ध्याद्वयाय। गले-इन्द्राय। गलकम्बले-रक्षोगणेभ्यो। हृदये-साध्येभ्यो। जङ्घयोः-धर्माय। खुरमध्ये-गन्धर्वेभ्यो। खुराग्रेषु-पन्नगेभ्यो। खुरमूलेषु-अप्सरेभ्यो। पृष्ठे-एकादशरुद्रेभ्यो। सर्वसन्धिषु-वसुभ्यो। कटिद्वये-पिॄतृभ्यो। पुच्छे-सोमाय। निम्नाङ्गेषु-द्वादशादित्येभ्यो। केशेषु-सूर्यरश्मिभ्यो। गोमूत्रे- गङ्गायै। गोमये-लक्ष्म्यै। दुग्धे-सरस्वत्यै। दध्नि-नर्मदायै। घृते-वह्नये। रोमेषु-त्रयस्त्रिंशत्कोटिदेवेभ्यो। उदरे-पृथिव्यै। स्तनेषु-चतुर्भ्यःसागरेभ्यो। सर्वांगेषु-कामधेनवे। इत्यावाह्य- ॐ नर्य्यप्रजाम्मे०। प्रतिष्ठाप्य।। ध्यानम्- देवेश नानाभरण प्रीयेन्द्र प्राचीपते वज्रधरामरेश |ऐरावतारुढ शचीसखात्र गृहाण पूजां भगवन्नमस्ते|| शचीपुरन्दराभ्यां नमः ध्यायामि।। गौर्ध्यानम्-क्षिराब्धि संभवे देवि मुक्तादामविराजिते। सुधारूपे हव्यभुंक्ते नमो$स्तु सुरवंदिते।। सुरभीगवे नमः ध्यायामि।। ॐ भूर्भुवःस्वः शचीपुन्दर सहित सुरभीगवे नमः आसनादि स्नानान्तरैः पूजयन् अभिषेकः-श्रीसूक्तेन, आ गावो इत्यष्टर्चस्यसूक्तेन च एभिः पुराणमंत्रैः- गावो मामुपतिष्ठन्तु हेमश्रृंग्यः पयोमुचः। सुरभ्य सौरभेयश्च सरितः सागरं यथा।। गा वै पश्याम्यहं नित्यंगावः पश्यन्तु मां सदा। गावो$स्माकं वयं तासां यतो गावस्ततो वयम्।। गावः सुरभयो नित्यं गावो गुग्गुलगंधिकाः। गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम्।। अन्नमेव परंगावो देवानां हविरुत्तमम्। पावनं सर्वभूतानां रक्षन्ति च वहन्ति च। हविषा मन्त्रपूतेन तर्पयन्त्यमरान् दिवि। ऋषिगणामग्निहोत्रेषु गावो होमे प्रयोजिताः।। सर्वेषामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्।। गावः स्वर्गस्य सोपानं गावः स्वर्गे$पि पूजिताः। गावः कामदुहो देव्यो नान्यत् किंचित् परं स्मृतम्।। नमो गोभ्यः श्रीमतीभ्यः सारभेयीश्च एव च। नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः।।ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्। एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति। घृत क्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्तास्त मे सन्तु सदागृहे।। घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्। घृतं मे सर्वतश्चैव घृतं मनसि वै घृतम्।। गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे सर्वतः सन्तु गवां मध्ये वसाम्यहम्।। गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश। यस्मात् तस्माच्छिवं मे स्यादिह लोके परत्र च।। ॐ देवस्यत्वा सवितुः००।।
शुद्धोदकैः संस्नाप्य। वस्त्रादि पुष्पाञ्जल्यन्तैः पूजयन्  अङ्गपूजा* शक्रायनमः पादौ पू० शचीपतयेनमः जानुनी० सुरेशायनमः गुल्फौ० मेघनायकायनमः कटीं ० ज्येष्ठाधिष्ठिताय नमः नाभिं० विशाखेन्द्रायनमः स्तनौ० देवेन्द्रायनमः हृदयं० अदितिनंदनायनमः हस्तौ० पुरन्दरायनमः भुजौ० दिक्पालायनमः मुखं ०वज्रहस्तायनमः नासिकां० सहस्राक्षायनमः नेत्रान्० अप्सरादिसेवितायनमःकर्णौ०प्रावृषाधिपायनमः ललाटं० इन्द्रियदमनायनमः शिरः० देवराजायनमः सर्वांगं० । गौ अङ्गपूजा- गवे नमः पादौ। जगन्मात्रे नमः गुल्फौ।अघापहन्त्र्यै नमः जानुनी। सुरभ्यै नमः ऊरु। विष्णुपदस्थित्यै नमः कटी।  नंदिन्यै नमः उदरं। पंचगव्यप्रसूत्यै नमः हृदयं। वशिष्ठपूजितायै नमः मुखं। दिलीपसेवितायै नमः नासिकां।पृथ्विरूपधारिण्यै नमः नेत्रे। जगत्पाविन्यै नमः भ्रूमध्ये। कपिलायै नमः भालं। यमुनायै नमः शिरः। विष्णुरूपिण्यै नमः सर्वांगं।
यंत्रार्चनम्० संचिन्मयपरोदेव परामृत रसप्रीय|अनुज्ञां देहि हे शक्र परिवारार्चनाय ते||यंत्रस्थ देवताः इं हृदयायनमः, इंशिरसे स्वाहानमः इंशिखायैवषट्नमः इंकवचाय हुम् नमः , इं नेत्राभ्यां वौषट् नमः, इं अस्त्रायफट् नमः इति प्रथमा$वरणम्|पुष्पांजलिः-  दयाब्धे त्राहि संसार भीतःमृत्युर्भवार्णवात् | भक्त्या समर्पये तुभ्यं प्रथमा$वरणार्चनम्|| अष्टदलेषु कं कार्तिकेयायनमः रं अग्नयेनम: मं यमायनम: क्षं निर्ऋतयेनम: वं वरुणायनमः यं वायवेनमः सं सोमायनमः ईंशानायनमः इति २ आवरणम् . पुनस्तथैवदलाग्रेषु- शशिदेव्यप्सरायैनमः तिलोत्तमाप्सरायैनमः कांचनमालाप्सरायैनमः कुंडलाहारिण्यप्सरायैनमः रत्नमालाप्सरायैनमः रंभाप्सरायैनमः उर्वश्यप्सरायैनमः श्रीभूषण्यप्सरायैनमः इति३आवरणम्. भूपुरे इन्द्रादि दश दिक्पालान् क्रमेण. इति४आवरणम्.पुनः भूपुरे इन्द्रादिसमीपेषु वज्राद्यायुधानि क्रमेण.इति ५आवरणम्। सौभाग्यद्रव्यादिभिः पुष्पाञ्जलिः पर्यन्तं सम्पूज्य.श्रीफलार्घ्य: ॐ स्वस्ति पन्थामनुचरेम००। प्रार्थना- स्वस्ति प्रजाभ्य: परिपालयन्तां न्याय्येनमार्गेण महीं महीशाः|गो ब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु||पृथ्वि सगन्धाप्सरसस्तथापः स्पर्शी च वायुर्ज्वलितं च तेजः|नभ: स शब्दं महता सहैव सर्वे सुराः शान्तिकरा भवन्तु||शचीपते महाबाहो सर्वाभरण भूषित|नमस्ते भगवन्निन्द्र दिव्यालंकारभूषित|| देवराज गजारुढ पुरंदर शतक्रतो |वज्रहस्त महाशक्ते वाँच्छितार्थ प्रदोभव||शची प्रार्थना- देवि प्रपन्नार्ति हरे प्रसीद०। गावो रक्षन्तु मे पुण्यं गावो रक्षन्तु मे यशः। नमो$स्तु कामधनुभ्यो याः पुनन्ति जगत्र्त्यम्।।  विष्णोर्वक्षसि या लक्ष्मीर्या लक्ष्मीर्धनदस्य च।या लक्ष्मीर्लोकपालानां सा धेनुर्वरदा मम।। इति पूजां समाप्य सर्वोपस्करैः गाः सम्पूज्य गौपुच्छे  सकुशतिलोदकैः(अपसव्यं)ॐ ऊर्ज्जं वहन्तिरमृतं००। इत्यनेन पितॄतर्पणं विधाय सव्येन  गोभ्यो तृप्तिपर्याप्तं अन्नं वा भोजनं समर्प्य || चरणोदकं पिबेत् |

मंडपैशान्यां ग्रहवेद्यां ग्रहमंडलदेवताः(अयुताधिक होमपक्षे शेषादिमनुष्यांन्तदेवताश्च)आवाहनादि उपचारैः सम्पूज्य || स्वगृह्योक्तमार्गेण कुशकंडिकां समाप्य आज्यभागान्तं कृत्वा- इमानि सम्पादितानि हविर्द्रव्याणि अन्वाधानोक्तदेवताभ्यश्च न मम || इति सर्वत्र त्यागः|| समिद्ध(यव), चरु, तिलाज्यादिभिः आदित्यादि नवग्रहान् २८/८| ईश्वरादि आधिदेवताः ८/४ अग्न्यादि प्रत्याधिदेवताः८/४| विनायकादिसप्तदेवताः४/२| अयुताधिकहोमपक्षे शेषादिमनुष्यांतदेवताः २/१| प्रधानहोमः- आ गावो इत्यष्टर्चस्य सूक्तस्य बार्हस्पत्यभरद्वाजौ इन्द्रगावश्च  त्रिष्टुप् द्वितीयाचतुर्थ्यौ जगती अंत्यानुष्टुप्  न्यासे होमे च  विनियोगः- ॐ आ गावो अग्मन्नुत भद्रमक्रन् त्सीदन्तु गोष्ठे रणयन्त्वस्मे। वामकरे। ॐ प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः।।१।। दक्षिण करे।। ॐ इन्द्रो यज्वने पृणते च शिक्षत्युपेद् ददाति न स्वं मुषायति। वामपादे।। ॐ भूयो भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्।।२।। दक्षिण पादे।। ॐ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति। वामजानौ।। ॐ देवाँश्च याभिर्यजते ददाति च ज्योगित् ताभिः सचते गोपतिः सह।।३।। दक्षिणजानौ।। ॐ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि। वामकट्याम्।। ॐ उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः।।४।।दक्षिणकट्याम्।। ॐ गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः। नाभौ।। ॐ इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्।।५।। हृदये।। ॐ यूयं गावो मेदयथा कृशं चिदश्रीरं चित् कृणुथा सुप्रतीकम्। वामबाहौ।। ॐ भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु।।६।। दक्षिणबाहौ।। ॐ प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। कण्ठे।। ॐ  मा  वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः।।७।। मुखे।। ॐ उपेदमुपपर्चनमासु गोषुप पृच्यताम्। नेत्रयोः।। ॐ उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये।। ऋग्वेदे ६मं०२८सू०१-८।। मूर्ध्नि।।
ध्यानम्- पीतवर्णं गजारुढं वज्रपाणिं सुरेश्वरम्||पाश वज्रधरं देवं वरदाभसुरवंदिते।। क्षिराब्धि संभवे देवि मुक्तादामविराजिते। सुधारूपे हव्यभुंक्ते नमो$स्तु सुरवंदिते।। इति ध्यात्वा- पालाश(अश्वत्थ)समिद्घ, गौरसर्षप,पायस,तिल,चतुरंगुला$मृतालताखंड,यव द्रव्यैश्च दधि मधु घृतेति त्रिर्मधुद्रव्येण, सहस्र,अयुत, लक्षावधिसंख्याभिर्वा -
ॐ आ गावो अग्मन्नुत भद्रमक्रन् त्सीदन्तु गोष्ठे रणयन्त्वस्मे।  प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः।।१।। इन्द्रो यज्वने पृणते च शिक्षत्युपेद् ददाति न स्वं मुषायति।भूयो भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्।।२।। न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति। देवाँश्च याभिर्यजते ददाति च ज्योगित् ताभिः सचते गोपतिः सह।।३।। न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि।  उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः।।४।।गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः।  इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्।।५।। यूयं गावो मेदयथा कृशं चिदश्रीरं चित् कृणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचो बृहद् वो वय उच्यते सभासु।।६।। प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। मा  वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः।।७।। उपेदमुपपर्चनमासु गोषुप पृच्यताम्। उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये।। स्वाहा || ऋग्वेदे ६मं०२८सू०१-८।।

गवांमगेषु आवाहित देवताः(दशवारं) पायसचरुणा,इन्द्रपीठदेवतायंत्रावरणदेवताश्च (दशदश वारं)एकैकवारं वा तिलाज्येन, सर्वतोभद्रमंडलदेवताः (दशदश वारं) वा एकैकवारं  तिलाज्येन-[इति प्रधान होमः]। वास्तुपीठ,गजाननादियोगिनीपीठ,अजरादिक्षेत्रपालपीठदेवताश्च (दशदशवारं)एकैकवारं वा तिलाज्येन। आदित्यादिनवग्रहान् प्रीयफलेन आज्येन वा,गणपतिं पञ्चवारं मोदकेन,त्र्यंबकं गुग्गुलेन,श्रीसूक्तस्यपंचदशर्चेन सक्तुमिवेति मंत्रेण च महालक्ष्मीं अमृतेन, महाकालीं महालक्ष्मीं महासरस्वतीं अमृतेन,नवार्णमंत्रेण त्रिगुणात्मिका दुर्गां अमृतेन,समस्तव्याहृतिभिः प्रजापतिं अयुतवारं वा(सहस्रवारं-अष्टोत्तरशतवारं वा) तिलाज्येन वा(आज्येन),हुत शेषेण स्विष्टकृतमित्यादि पूर्णाहुत्यन्तं समापयेत् || कृतं कर्मकर्मेश्वरार्पणमस्तु || ॐतत्सत् इति ||

ॐ स्वस्ति।। पु ह शास्त्री.उमरेठ

No comments:

Post a Comment

पूजा आदि में सिर नहीं ढंका चाहिए

शास्त्र प्रमाण:- उष्णीषो कञ्चुकी चात्र मुक्तकेशी गलावृतः ।  प्रलपन् कम्पनश्चैव तत्कृतो निष्फलो जपः ॥ अर्थात् - पगड़ी पहनकर, कुर्ता पहनकर, नग...