Thursday, 27 September 2018

केमद्रुम योग शान्तिविधान

केमद्रूम योग शांतिः विधानम्* मम वा ( अमुकस्य" अमुकाया:) जन्म कुण्डल्यां  निर्बलचन्द्रेण जनित केमद्रूम दोषो$पनोदनार्थं समस्तारिष्ट दौर्भाग्य विनाशाय सर्वत्र शुभ फलावाप्तये सर्वसौभाग्य प्राप्त्यर्थं केमद्रूम शांत्याख्यं कर्म करिष्ये.
तदंगत्वेन गणपति पूजनम्  पुण्याहवाचनम् मातृकापूजनम्(कर्त्री यजमाना स्त्री विषये नैव मातृकापूजनं न च नान्दी श्राद्धम्)नान्दीश्राद्धम् ब्रह्माचार्यादिवरणम्  करिष्ये.
वरणान्त कर्म समाप्य... दिग्रक्षणम् पञ्चगव्यकरणम् प्रोक्षणं च देवा$यान्त्वितिना भूम्यादि पूजनान्तं कृत्वा...  वरदनामाग्निं संस्थाप्य. प्रधान पीठे सर्वतोभद्र देवानावाह्य संपूज्य तत्र पूर्णपात्रान्त विधिना कलशं संस्थाप्य कलशे कर्चूर( कपूरकाचली षोडशदर्भमयं कूर्चं यत्ते केशेषु दौर्भाग्यं० इति मंत्रेण निक्षिप्य. पूर्णपात्रोपरि राजती चतुर्दिक्षु षोडश बिंबाकृति सोममूर्तिं अग्न्युत्तारण प्राणप्रतिष्ठा विधिना संस्थाप्य. मध्ये इमन्देवा$ ० इति सोमं आवाह्य पूर्वादि क्रमेण ( पात्रासादनोक्ताः अमृतादि षोडश सोमकलाः नाम मंत्रेण आवाह्य. मूर्ते: परितः षोडश पूंगीफलेषु पूर्वादि क्रमेण तिथ्यधिष्ठित अग्न्यादि षोडश देवानावाह्य. पुनः पूंगीफल त्रयेषु सोमाधिदेवता उमा प्रत्याधिदेवता अपः जन्मनक्षत्राधिपतिंचावाह्य. षोडशो$पचारैः संपूज्य.
(सोम षोडश कलाः~ १अमृतायैनमः २ मानदायै नमः ३ पूष्ण्यैनमः ४ पुष्ट्यैनमः५ तुष्ट्यै नमः६ रत्यैनमः७ धृत्यै नमः ८ शशिन्यैनमः ९ चंद्रिकायै नमः १० कान्त्यैनमः ११ ज्योत्सनायै नमः १२ श्रियैनमः १३ प्रीत्यैनमः १४ अंगदायैनमः १५ पूर्णायैनमः १६ पूर्णामृतायै नमः) { तिथ्यधिष्ठित देवता:- अग्निन्दूतं०इति अग्निं, प्रजापते नत्व० इति धातृं, आयं गौः० इति गौरीं. गणानांन्त्वा० इति गणपतिं, नमो$स्तु सर्प्पेब्भ्यो०इति सर्पान्, जद्क्रन्दः० इति स्कन्दं, उदुत्यं जातवेदसं० इति रविं, नमः शम्भवाय च मयो० इति शिवं, जातवेदसे सुनवाम० इति दुर्गां, जमायत्वा मखायत्वा० इति यमं, विश्वेदेवास$आगत० इति विश्वान्देवान्, इदं विष्णु० इति विष्णुं, कोदात्कस्मा० इति कामदेवं, तमीशानञ्जगतस्तस्थुखस्पतिं० इति ईश्वरं, आप्यायस्व० इति सोमं, उदिरता मवर$उत्परास० इति पितॄन्,}  प्रधान पीठाद्दुत्तरतः श्वेतवस्त्रं प्रसार्य तदुपरि अक्षतैरष्टदलं विरच्य पूर्णपात्रविधानेन शान्तिसंज्ञककलशं संस्थाप्य..त्रिलौहिमुद्रां अग्न्युत्तारण कृत्वा मातृकाक्षराणि अं आं इं.... क्षं इत्यन्तानि विन्यस्य,कलशान्तराले मुद्रिकां निक्षिप्य,(सोमसूर्याग्नि रूपाः स्युर्वर्णा लोह त्रयं तथा| रौप्यमिन्दु: स्मृतो हेमसूर्य स्ताम्रहुताशनः||लोहभागा समुद्दिष्टाः स्वराद्याक्षर संख्यया|तै र्लौहैः कारयेन्मुद्राम् सङ्कलित सङ्ताम्||शा०ति०) सोम सूर्य तथा अग्निस्वरूप अकारादि ये वर्ण  त्रिलौह स्वरूप हैं. चांदी- सोम, सुवर्ण- सूर्य, ताँबा- अग्नि, के स्वरूप हैं. इन लौह भागोंमें चाँदी १६ भाग, सोना १२ भाग, ताँबा १० भाग लेकर उन्की पृथक पृथक उतने ही परिमाण की अंगूठीयां बनवाकर अलग अलग बनी हुई उन मुद्रीकाओं रज्जुवत् मीलाकर एक करके अंगूठी बनवावें. यह दरिद्रता नाशक अंगुठी हुई.* तस्मिन कलशे वरुणं आवाह्य संपूज्य ब्राह्मण द्वारा ईन्दूसूक्तजप,और सोममंत्र- सों सोमाय नमः" इति १००८जप:,
ग्रहमंडलपीठे आदित्यादिग्रहमंडलदेवानावाह्य च संपूज्य. ऐशाने पूर्णपात्रान्त कलशे वरुणं आवाह्य च संपूज्य." असंख्याता सहस्रेण० इति कलशाम्भसि  रुद्रं आवाह्य संपूज्य.... षडङ्गरुद्रपाठ: ब्रह्मासनादि पर्युक्षणान्त कृत्वा, आधारावाज्यभागौ हुत्वा, वरदनामाग्निं सम्पूज्य. वराहुतिं दत्वा ग्रहहोमः प्रधान सोमं पायसेन १००८ ऊँ सों सोमाय नमः स्वाहा"इमन्देवा० १०८ सोमाधिप्रत्याधिदेवताः उमा अपः २८/२८ वारं तिलाज्येन, षोडशकला:नाममंत्रेण तिलाज्येन ८/८ वारं, षोडश तिथ्यधिष्ठिताः देवता: तिलाज्येन८/८ वारं.इति प्रधान होमं कृत्वा उत्तर होमं समाप्य त्रिलौहीमुद्रिकायां सोमं आवाह्य यथाशक्त्या संपूज्य १०८ वारं मूलमंत्रं सों सोमाय नमः इति पठन्, पवित्रस्थाने निधाय, पूर्णाहुतिं वसोर्द्धाराश्च संपाद्य पवमानमंत्रैः शांतिकलशोदकेन मुद्रिकासहित यजमानमभिषिंच्य अनामिकायां मुद्रिकां धारयेदिति, ॐस्वस्ति||
पु ह शास्त्री.उमरेठ.

No comments:

Post a Comment

पूजा आदि में सिर नहीं ढंका चाहिए

शास्त्र प्रमाण:- उष्णीषो कञ्चुकी चात्र मुक्तकेशी गलावृतः ।  प्रलपन् कम्पनश्चैव तत्कृतो निष्फलो जपः ॥ अर्थात् - पगड़ी पहनकर, कुर्ता पहनकर, नग...