एतद्-विषयकाणि कतिचन शास्त्रवचनानि---
कर्मारं तक्षकं व्याधं नापितं रजकं तथा।
अन्यान् ग्रामान्त्यजान् स्पृष्ट्वा सवासा जलमाविसेत्।।
—स्मृतिसन्दर्भ, चतुर्थभाग, वैष्णववसिष्ठस्मृति ६।४९०।
षोडशग्रामचण्डाल पौरोहित्येन तत्क्षणम्।
तत्तज्जातीयपापानामालयोद्रयं न संशयः।।
—मार्कण्डेयस्मृति, स्मृतिसन्दर्भ षष्ठ भाग, पृ.५६।
चण्डालीं पुल्कसीं म्लेच्छीं पाषण्डीं पतितामपि।
रजकीं वुरुडीं व्याधां सर्वा ग्रामान्त्यजाः स्त्रियः।।
अकामतः सकृद् गत्वा चरेच् चान्द्रायणव्रतम्।
अभ्यासे तु व्रतं पूर्णं ताभिá सह भोजने।।–वृद्धहारीतस्मृति ९।३१६।
नृपवैश्यश्राद्धभिस्साभक्षकं सन्ततंतराम्।
वर्जयेदब्दमात्रं तु ग्रामचण्डालकर्मसु ।।
आमश्राद्धग्रहीतारं तद्दिने नाद्रवलोकयेत्।
दिवारात्रमसम्भाष्यो दिवाकीत्र्यपुरोहितः।।
—आङ्गिरसस्मृति, पूर्वाङ्गिरस, श्लो.७६३–७६४, स्मृतिसन्दर्भ, पञ्चमभाग, पृ.३०२८।
ग्रामान्त्यजैश् च चण्डालैः स्पृष्ट्वा माल्यादि वर्जयेत्।
तथैव फलशाकादिगुणतैलमधूनि च।।
—वैष्णववसिष्ठस्मृति ६। ५२१, स्मृतिसन्दर्भ, चतुर्थभाग, पृ.२२३४।
रजकश् चर्मकारश् च नटो वुरुड एव च।
कैवर्तमेदभिल्लाश् च स्वर्णकारश् च सौचिकः।।
कारुको लोहकारश् च शिलाभेदी च नापितः।
तक्षकस् तिलयन्त्री च सूनी चक्री तथा ध्वजी।।
एते षोडशधा प्रोक्ताश् चण्डाला ग्रामवासिनः।
एतेषां दर्शनं स्पर्शं सम्भाषणमतः परम्।।
स्नानभोजनवेलायां जपहोमार्चने तथा।
स्वाध्यायसमये चैव ध्याने नेच्छन्ति सूरयः।।
—गरुडपुराणवचन, हेमाद्घिकृत चतुर्वर्गचिन्तामणि, प्रायश्चित्ताध्याय, पृ.३८, अब्धिनौयानमीमांसा, पृ.१०६।
बहिग्र्रामान्त्यजान् सूतिं पतितं च रजस्वलाम्।
न स्पृशेन् नाभिभाषेत नेक्षेत व्रतवासरे।।
—नित्यानन्दपन्तपर्वतीयकृत वर्षकृत्यदीपक, पृ.२६।
चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति विशेषः।—विष्णुधर्मसूत्र १६।१४।
शूद्राणामनिरवसितानाम् ।– पाणिनीय अष्टाध्यायी २।४।१०।।
अनिरवसितानामित्युच्यते कुतोनिरवसितानाम्? आर्यावर्तादनिरवसितानाम्। कः पुनरार्यावर्तः? प्रागदर्शनात् प्रत्यक् कालकवनाद् दक्षिणेन हिमवन्तमुत्तरेण पारियात्रम्। यद्येवं किष्किन्धगब्दिकम्, शकयवनम्, शौर्यक्रौञ्चम् इति न सिध्यति। एवं तर्हृार्यनिवासादनिरवसितानाम्। कः पुनरार्यनिवासः? ग्रामो घोषो नगरं संवाह इति। एवमपि य एते महान्तः संस्त्यायास् तेष्वभ्यन्तराश् चण्डाला मृतपाá वसन्ति तत्र चण्डालमृतपा इति न सिध्यति। एवं तर्हि याज्ञात् कर्मणोनिरवसितानाम्। एवमपि तक्षायस्कारम् रजकतन्तु¬वायम् इति न सिध्यति। एवं तर्हि पात्रादनिरवसितानाम्। यैर् भुक्ते पात्रं संस्कारेण शुध्यति तेनिरवसिताः। यैर् भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिताः।—पाणिनीय–व्याकरण–पातञ्जल–भाष्य २।४।१०।
चैत्यद्घुमश्मशानेषु शैलेषूपवनेषु च।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः।।—मनुस्मृति १०।५०।
चण्डालश्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः।
अपपात्राश् च कर्तव्या धनमेषां श्वगर्दभम्।।—मनुस्मृति १०।५१।
Tuesday, 6 March 2018
अस्पृश्य कौन कौन है ?
Subscribe to:
Post Comments (Atom)
ज्ञ वर्ण का उच्चारण
'ज्ञ' वर्ण के उच्चारण पर शास्त्रीय दृष्टि- संस्कृत भाषा मेँ उच्चारण की शुद्धता का अत्यधिक महत्त्व है। शिक्षा व व्याकरण के ग्रंथोँ म...
-
जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते। वेदपाठाद् भवेद् विप्रः ब्रह्म जानाति ब्राह्मणः।। इसके आधार पर यदि आप इसका ये अर्थ करतें हैं क...
-
#पूर्णपात्र_रहस्य यज्ञ में ब्रह्माजी का पद सबसे वरिष्ठ होता है ।यह सृष्टि भी यज्ञस्वरूप ही है। #यज्ञेन_यज्ञमयजन्तदेवा:...... यह सृष्टि ...
-
रामपाल तो सामने आने से रहा , तथापि रामपाल के कथित चेलों के माध्यमेन इसे सामने ( लाइन हाजिर ) लाकर इसकी पोल खोली जा रही है , य...
No comments:
Post a Comment